SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ नाभिनदो, नाभिनदश्च ध्वनिश्च जघनस्तननाभिनदध्वनयः, सन्तः-शोभना जघनस्तननाभिनदध्वनयो यस्य तत् सजघन(स्तन)नाभिनदध्वनि॥ पादोत्तरजातिः ॥ ६८॥ पद्मस्तोमो वदति कपिसैन्येन भोः ! कीदृशा प्राक् ?, सिन्धौ सेतुर्व्यरचि? रुचिरा का सतां वृत्तजातिः ?। को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारेः ?, किं कुर्याः कं रत' इति सखीं पृच्छती स्त्री किमाह ?॥ ६९॥ ॥नालिन! नलिना, मालिनी, नीलिमा, मानानीनमालि॥मन्थानान्तरजातिः॥ . व्याख्या:- पद्मस्तोमः अम्भोजसमूहः वक्ति- कीदृशा कीदृशेन कपिसैन्येन प्राक् पुरा सिन्धौ समुद्रे सेतुः बन्धो व्यरचि कृत:? उत्तरम्- नलिनानां समूहः नालिनम्, तस्य सम्बोधनम्- हे नालिन! नलिना! नल: कपिविशेषो विद्यते यत्र सैन्ये तन्नलिः, तेन नलिना। सतां विदुषां का वृत्तजातिः रुचिरा, पाठान्तरे 'रुचिता' वा? मालिनी पञ्चदशाक्षरः छन्दोविशेषः। पुरारेः हरस्य कण्ठकाण्डात् कण्ठप्रदेशाद् दिक्षु कः प्रसरति? नीलिमा नीलवर्णः। 'हे सखि! त्वं रते सम्भोगक्षणे, पाठान्तरे 'रहः एकान्ते' कं किं कुर्या:?' इति पृच्छन्तीं सखी प्रति स्त्री किम् आह ब्रूते ? रहः' चात्राऽव्ययम्, यदमरसिंहः - ‘रहश्चोपांशु चालिङ्गे' [अमरकोष २/८/२३] इति। मानानि पूजयामि अहम् इनं पतिं हे आलि! सखि!, 'मानानि' इति 'मानण् पूजायाम्' [पाणि. धातु. १९८६] अस्य चुरादिधातोः युजादिमध्ये वैकल्पिकनिजभावे आशी:प्रेरणयोरातिपि रूपम्। १. 'पादोत्तरजाति' इति न ३। २. 'रह' इति ३, मु. प्रतौ च। प्रश्रोत्तरैकषष्टिशतकाव्यम् ५३
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy