________________
अथवा क्वचिदादर्श तु 'लिनानि इनमालि!, हे आलि! अहम् इनं लिनानि-आश्लिष्यामि' इति। तत्र 'ली श्लेषणे' [सार.क्या.पर.पृ. ३४०]; [पाणि. धातु. १६०१] अस्य क्र्यादिगणस्थधातोराशी: प्रेरणयोरानिपि 'लिनानि' इति रूपम् ॥ मन्थानान्तरजातिः ।। ६९ ॥
पथि विषमे महति भरे भो धुर्याः! किं स्म कुरुथ कां कस्य ?। अत्यम्लतामुपगतं किं वा के नाऽभिकाङ्क्षन्ति ?॥ ७०॥
॥दधिमधुरमनसः॥[वाक्योत्तरजाति: ]॥ व्याख्या:- भो धुर्याः! वृषभाः! विषमे पथि मार्गे महति भरे भारे सति कस्य कां यूयं किं कुरुथ स्म अकार्ट? उत्तरम्दधिम धुरम् अनसः। शकटस्य धुरं वयं दधिम-धृतवन्तः। 'दधिम' इति 'डुधाञ् धारणपोषणयोः' [सार.जु.उ.पृ. ३०७]; [पाणि. धातु. ११६७] परोक्षापरस्मैपद उत्तमपुरुषबहुवचने रूपम्।
अतिशयेनाऽम्लता अत्यम्लता, ताम् उपगतं प्राप्तं किं के न अभिकाङ्क्षन्ति वाञ्छन्ति? उत्तरम्- दधि कर्मताऽऽपन्नम्, मधुरे मनो येषां ते, मधुरमनसो जना दधि नेच्छन्ति ॥ वाक्योत्तरजातिः॥ ७० ॥ भानो: केष्येत पौरुडु वदति पदं पप्रथे किं सहार्थे ?, कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या?।
५४
कल्पलतिकाटीकया विभूषितम्