________________
सप्राणः प्राह पुंसि क सजति जनता? भाषतेऽथाभावः, कुर्वेऽहं क्लेदनं किं ? क च न खलु मुखं राजति व्यङ्गितायाम् ?॥ सत्यासक्तंच सेा: किमथ मुररिपुंरुक्मिणीसख्य आख्यन् ?॥७१॥
॥भामारतसानतेमनसि॥ शृङ्खलाजातिः॥ व्याख्या:- पौः भानोः सूर्यस्य का इष्येत वाञ्छ्येत? उत्तरम्- भा प्रभा।
उडु नक्षत्रं वदति- सहार्थे किं पदं पप्रथे विख्यातम्? हे भ! नक्षत्र! 'अमा' एतत्सहार्थे पदम्।
कामः स्मरः च पुन: व्यवायोऽपि निधुवनं वक्ति- पदनिपुणैः पदविज्ञैः पञ्चमीविभक्तिः केन प्रत्ययेन वाच्या? उत्तरम्- हे मार! कन्दर्प! हे रत! सम्भोग! तसा तस्प्रत्ययेन, यथा 'कुतः' इत्यादौ। . सप्राणः प्राह वक्ति- जनता जनसमूहः क्व पुंसि सजति सङ्गं कुरुते? उत्तरम्- सहाऽऽनैः-प्राणैर्वर्त्तते यः स सानः, तस्य सम्बोधनम्- हे सान! नते नछे।
अथार्द्रभावो भाषते- अहं क्लेदनम्, आर्द्रवं किं कुर्वे ? हे तेम! आर्द्रभाव! त्वं मन अभ्यस्य। 'म्नाऽभ्यासे' [सार.भ्वा.पर.पृ. २४७]; [पाणि. धातु. ९९५] इत्यस्य मनादेशे आशी:प्रेरणयोर्हो परे 'मन' इति रूपम्।
व कस्यां व्यङ्गितायां छिन्नायां मुखं न राजति शोभते? उत्तरम्- नसि नासिकायाम्।
'अथ' इति पक्षान्तरे, 'भीमो भीमसेनः' इतिवत् पदैकदेशे पदसमुदायोपचारात् सत्या सत्याभामा, तत्राऽऽसक्तं-रक्तं सत्यासक्तं मुररिपुं विष्णुं प्रति रुक्मिणीसख्यः सेाः सासूयाः सत्यः किम्
प्रश्रोत्तरैकषष्टिशतकाव्यम्
५५