________________
आख्यन् ऊचुः? हे भामारत! सत्यभामासक्त! विष्णो! सा रुक्मिणी ते तव मनसि न॥ शृङ्खलाजातिः ॥ इदं पञ्चपदं वृतं ज्ञेयम् ।। ७१ ॥
भा
मा
र
त
सा
न
ते
म न सि
तरुणेषु कीदृशं स्यात् ? किं कुर्वत् ? कीदृगक्षि तरलाक्ष्याः?। सा जोव्वणं भयंती भण मयणं केरिसं कुणइ ?॥ ७२॥
॥ उवलद्धबलम्( वलयम्)॥ भाषाचित्रजातिः॥ व्याख्याः- तरलाक्ष्याः चपललोचनायाः कीदृग् अक्षि चक्षुः किं कुर्वत् तरुणेषु कीदृशं भवति? अत्रोत्तरम्– अवतीति ऊः, नपुंसकत्वाद् ह्रस्वत्वं, उ रक्षकम्, तरुणानां स्तम्भकं स्यादित्यर्थः, वलत् विवर्तमानं धवलं श्वेतम्।
____ तथा त्वं भण-सा स्त्री यौवनं भजन्ती आश्रयन्ती मदनं कीदृशं करोति ? उत्तरम्– उपलब्धं बलं येन सः, तम् उपलब्धबलम्।
'उवलद्धवलयं' इति पाठे तु तरलाक्ष्या अक्षि कीदृशं स्यात्? अवतीति उ प्रीतिदम्, 'अवधातुः प्रीत्यर्थेऽपि' [पाणि. धातु. ६४०] । किं कुर्वत्? वलत् आलगत्। कीदृशं सन् ? धवे लयः यस्य तद् धवलयम्।
पक्षे, उपलब्धं वलं यस्य सः, तम्, कप्रत्यये उपलब्धवलकम् ॥ भाषाचित्रजातिः ॥ ७२॥
सत्यक्षमातिहर आह जयद्रथाजौ, पार्थ! त्वदीय रथवाजिषु का किमाधात् ?।
१.
'शृङ्खलाजातिः' इति न ३।
कल्पलतिकाटीकया विभूषितम्