________________
अप्पोवमाइ किर मच्छरिणो मुणंति, किं रूवमित्थ सुयणं' भण केरिसं तु ?॥७३॥
॥सच्छमतुच्छमच्छरसरिच्छम्॥ भाषाचित्रजातिः॥ व्याख्याः- 'सत्यञ्च क्षमा च अर्तिश्च सत्यक्षमार्तयः, ताः हरतीति सत्यक्षमार्तिहरः कश्चिद् आह ब्रवीति–'हे पार्थ! अर्जुन ! जयद्रथस्याजौसङ्ग्रामे जयद्रथाजौ रथवाजिषु का किम् आधात् अकरोत्?' इति प्रश्रेऽर्जुन उत्तरयति- सत्-सत्यम्, शम:-क्षमा, तुदतीति तुद्, विप् अर्त्तिः, सच्च शमश्च तुच्च सच्छमतुदः, ताः छ्यति-श्यति-शमयति वा, त्रयाणामपि धातूनां डप्रत्यये सच्छमतुच्छ :, तस्य सम्बोधनम्- हे सच्छमतुच्छ! मम शरा: मच्छराः, तेषां सरित् नदी, 'धोरणिः' इति यावत् । मच्छरसरित् शं सुखम्, 'आधात्' इति सम्बन्धः।
पक्षे, त्वं भण- 'अत्र जगति 'किल' इति सत्ये मत्सरिणः दुर्जनाः किं रूपं सुजनं 'अप्पोवमाइ'त्ति अल्पस्य-तुच्छस्य उपमया अल्पोपमया, आत्मोपमया वा आत्मसादृश्येन कीदृशं मुणंति जानन्ति? उत्तरम्- 'सच्छं' ति-स्वच्छं स्वच्छस्वभावं सन्तं जनमतुच्छः-प्रभूतो मत्सरो यस्य सः अतुच्छमत्सरः, तेन सदृक्षं-तुल्यम् अतुच्छमच्छरसदृक्षं मन्यत इति ॥ इदं प्रश्नोत्तरद्वयं भाषाचित्रजातिरूपं ज्ञेयम् ॥ ७३॥
कीदृक्षः कथयत दौषिकापण: स्यात् ?, ना केन व्यरचि च पट्टसूत्रराग: ?। क्षुद्रारिर्वदति किमुत्कटं जिगीषोः ?, किं जघ्ने शकरिपुणेति वक्ति रङ्कः?॥ ७४॥ ॥शाटकी, कीटशा, कंटक!, कटकं, शाकं कीकट॥ मन्थानान्तरजातिः॥
'सुअणं' इति १।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
५७