________________
यममुखं याम प्रविशाम, 'वयम्' इति शेषः। 'या प्रापणे' [सार.अ.पर.पृ. २७१]; [पाणि. धातु. ११२५] आशी:प्रेरणयोरामपि 'याम' इति रूपम् ॥ गतप्रत्यागतजातिः ॥ ५६॥ .
उष्ट्रः पृच्छति किं चकार मदृते कस्मिन् शमीवृक्षकः ?, कीदृक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाऽहं ब्रुवे?। यूनः प्राह सरोजचारुनयना सम्भोगभङ्गिक्रमे, प्रारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु?॥ ५७॥
॥हेमयाननंदवनेचलोलमक। गतागतः॥ व्याख्या:- उष्ट्रः क्रमेलकः पृच्छति- मदृते मां विना, ऋते शब्दयोगे 'मत्' इत्यत्राऽस्मच्छब्दस्य पञ्चम्येकवचनं ह्रस्वः, शमीवृक्षः शमीवृक्षकः कस्मिन् किं चकार? अत्रोत्तरम्- हे मय ! उष्ट्र! आननन्द समृद्धिं गतवान् वने कानने।
तथाऽहं दुःखी सन् ब्रुवे- 'स्वभक्ष्यविरहे अधिकम् अत्यर्थं कीदृक्?' इति प्रश्ने उत्तरम्- चल: चञ्चलः अलम् अत्यर्थम्, न विद्यते कं-सुखं यस्याऽसौ अकः, तस्य सम्बोधनम् हे अक! .
पक्षे, सरोजचारुनयना यूनः प्रति प्राह- हे तरुणाः! यूयं सम्भोगभङ्गिक्रमेऽधरचुम्बने प्रारब्धे मम मुखं कि कुरुध्वे ? ततः तरुणाः प्राहुः- हे कमललोचने! सरोजाक्षि! तव वदनं मुखं नयामहे, 'तव वदनेऽधरचुम्बनं कुर्महे' इति भावः॥ गतप्रत्यागतजातिः॥ ५७॥ चक्री चक्रं व धत्ते ? क सजति कुलटा? प्रीतिरोतोः क? कस्मै, कूपः खन्येत? राज्ञां क च नयनिपुणैर्नेत्रकृत्यं निरुक्तम् ?। कन्दर्पापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्णशक्षुश्चिक्षेप? विष्णुर्वदति वसु पुरः स्तेन! किं त्वं करोषि ?॥५८॥
१. ४४
'गतप्रत्यागतजातिः' इति न.३।
कल्पलतिकाटीकया विभूषितम्