SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्याख्याः- निःस्वः निर्धनः प्राह- लसद्विवेकाश्च ते कुलजाश्च कुलीना लसद्विवेककुलजाः, तैः सम्यक् कः क्रियेत? उत्तरम्न विद्यते ता- लक्ष्मीर्यस्याऽसौ अतः, तस्य सम्बोधनम्- हे अत! नि:स्व! नवमदशमः। नवश्चासौ मदश्च नवमदः, तस्य शमः नवमदशमः। हे मुग्धे! त्वं प्रिये पत्यौ स्निग्धदृशं स्निग्धदृष्टिं किमकरो:? सा प्राह-अहम् अतनवं विस्तारितवती। तथा तस्य प्रियस्योष्ठं तदोष्ठं किं व्यधाः? पुनः सा प्राह- अहम् अदशम् अधरचुम्बनमकरवम्। ___बलेर्दैत्यस्य वधूः बलिवधूः, तस्या वैधव्यदीक्षा बलिवधूवैधव्यदीक्षा, तस्या गुरुः बलिवधूवैधव्यदीक्षागुरुः लोकैः कः प्रोच्यते? अः कृष्णः। इह प्रश्श्रे, भो विद्वन्! भूमिशुभासशब्दः कीदृग् सन् विश्रम्भवाचको भवेत् ? उत्तरम्- अतनवमदशमः। न विद्यते तात्-तकाराद् नवमदशमौ- भकारमकारौ यत्र स तथा। ततश्च 'ऊ इ शु आ स' इति जाते' सन्धियोगेन 'विश्वास' इति भवति ॥ द्विळस्तसमस्तजातिः ॥ ५५ ।। शशिना प्रमदपरवशः पृच्छति कः स्वर्गवासमधिवसति ?। च्युतसत्पथाः किमाहु-लौकिकसन्तो विषादपराः॥५६॥ ॥मयानंदवशनाकी॥ गतागतः॥ व्याख्याः- शशिना चन्द्रेण प्रमोदविवशः पृच्छति- कः स्वर्गवासमधिवसति? उत्तरम्- मसा-चन्द्रेण आनन्दो मयानन्दः, तेन वशः, परवशः, तस्याऽऽमन्त्रणम्- हे मयानन्दवश! नाकी देवः। पक्षे, च्युतसत्पथाः मुक्तसन्मार्गा लौकिकसन्तो विषादपराः सविषादाः सन्तः किम् आहुः ब्रुवते? प्रत्यागतेनोत्तरम्- कीनाशवदनं १. 'जाते' इत्यस्य स्थाने 'ततः' इति ३ । प्रश्रोत्तरैकषष्टिशतकाव्यम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy