SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अथ कीदृक् शिफाशब्दः श्रियं वक्ति? उत्तरम्– विगतः शकारो दकाराच्च पञ्चमः फकारो यत्र स विशदपञ्चमः। शिफाशब्दे शफाभ्यां रहिते इ-आयोगे 'या' इति श्रीवाची शब्दः स्यात्॥ व्यस्तद्विःसमस्तजातिः ॥५३॥ वदति मुरजित् कुत्राता च प्रिया वरुणस्य का ?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति। दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी ?, रवरवकवर्णाली कीदृग्ब्रवीति गतारतिम् ?॥ ५४॥ ॥अपरावणा॥ वर्धमानाक्षरजातिः॥ व्याख्याः- मुरजित् विष्णुः कुत्राता कुत्सितरक्षकश्च वदतिवरुणस्य का प्रिया? उत्तरम्- हे अ! विष्णो! हे अप! न पातीति अपः, अत्र कुत्सितार्थे नञ्, तस्याऽऽमन्त्रणम्- हे अप! अपरा पश्चिमा। यः क्रुद्धो रिपून नैव परिरक्षति, स वदति- काकुत्स्थेन राघवेण दशमुखचमूः रावणसेना कीदृशी व्यधीयत चक्रे? न परान्शत्रून् अवतीति अपरावः, तस्य सम्बोधनम्- हे अपराव! परमारक! अपगतो रावणो यस्यां सा अपरावणा। ‘रवरवक' इति वर्णाली कीदृशी गताऽरतिम् अरतिरहितं जनं ब्रवीति ? उत्तरम्- अपरा, आत्-अकारात् परा अपरा-अपूर्विका। तथा वकारयोः स्थाने णौ यत्र सा वणा। ततोऽपरा चाऽसौ वणा चेति अपरावणा। एतावता 'अरणरणक' इति भवति। अरणरणक:- गतारतिक उच्यते॥ वर्द्धमानाक्षरजातिः ॥ ५४॥ निःस्वः प्राह लसद्विवेककुलजैः सम्यग्विधीयेत को?, मुग्धे! स्निग्धदृशं प्रिये! किमकरोः ? किं वा तदोष्ठं व्यधाः?। लोकैः कोऽत्र निगद्यते बलिवधूवैधव्यदीक्षागुरुः?, कीदृग् भूमिशुभासशब्द इह भो! विश्रम्भवाची भवेत् ?॥५५॥ ॥अतनवमदशमः॥ द्विळस्तसमस्तजातिः॥ १. 'वर्द्धमानाक्षरजातिः' इति न ३। ४२ कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy