________________
श्रीराख्यदहं प्रियमभि किमकरवं? का च कस्य जनयित्री?। अदिवारीशब्दो वा कैस्त्यक्तः प्राह गृहदेशम् ?॥५२॥
॥ यैः॥ त्रि:समस्तः ॥ व्याख्याः- श्री: आख्यत् ऊचे- अहं प्रियमभि किमकरवम्? उत्तरम्- यैः। हे इ! लक्ष्मि! त्वं ऐ:- अगच्छः।
का च' कस्य जनयित्री माता? या लक्ष्मी: ए: कामस्य माता।
तथा' अदिवारीशब्दः कैः त्यक्तः रहितो गृहदेशं द्वारं प्राह? यैः। इश्च ईश्च अश्च याः, तैर्मुक्तो 'द्वार' इति भवति ॥ त्रिःसमस्तः ॥५२॥
कीदृक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विदिता कतमस्य धातोः ?। उत्कण्ठयेद् विरहिणं क इह प्रसर्पन् ?, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृग ?॥ ५३॥
॥विशदपञ्चमः॥ व्यस्तद्विःसमस्तः॥ व्याख्या:- प्रसरद् अम्भो यत्र सः, तस्मिन् प्रसरदम्भसि काले वर्षाकाले सरः कीदृग् भवति? विशन्त्यः- प्रविशन्त्य आपःजलानि यत्र तद् विशदपम्।
कस्य धातोः भुक्त्यर्थता विदिता? चमः, 'चमु अदने' [पाणि. धातु. ५०२] इत्यस्य।
कः प्रसर्पन् विरहिणमुत्कण्ठयेत्? विशदपञ्चमः निर्मल
पञ्चमरागः।
१. २. ३.
'च' इति न ३। 'तथा' इति न १, २। 'कीदृक्' इति मु०. प्रतौ।
प्रश्रोत्तरैकषष्टिशतकाव्यम्