________________
इयमार्या स्पष्टैव। 'केऽलीकरताः मृषासक्ताः' मनुजनिवहाः नरसमूहाः ?' इति प्रश्ने एतदेवोत्तरम् - केलीं करोतीति केलीकरः, तस्य भावः केलीकरता, तामनु - आश्रित्य जनिम् - उत्पत्तिं वहन्तीति जनिवहाः के लीक रतामनुजनिवहाः ॥ समवर्णप्रश्नोतरजातिः ॥ ५०॥
इह के मृषाप्रसक्ता नरनिकरा इति कृते सति प्रश्ने । यत्समवर्णं तूर्णं तदुत्तरं त्वं वद विभाव्य ॥ ५० ॥
१.
२.
व्याख्या:
४०
--
॥ केलीकरतामनुजनिवहाः ॥ समवर्णः ॥
व्याख्याः— ‘तव स्वजनाः प्रभूततुरगान् बभ्रुः दधुः ?' इति राज्ञा पृष्टः सन् कृपणकोऽपलपन् निह्नवानः सन् किमाह ? अधरन्तवाहमपि बन्धवो न मे । मे मम बन्धवो वाहमपि एकमप्यश्चं नाऽधरन्त- धृतवन्तः ।
पक्षे, भर्त्ता छलेन दशनच्छदम् ओष्ठं पीत्वा परिचुम्ब्य उग्रमानां किमपि ब्रुवाणां दयितां किमाह ? - हे प्रिये ! अहं तव अधरम् ओष्ठपुटं अपिबम् । ततः प्रेम्णा प्रियाऽऽह - ' त्वं मे मम धवो न, यतस्त्वं छलेन ममाऽधरपानमकार्षीः' इति । वाक्योत्तरजातिरियम् ॥ ५१ ॥
बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह ? | पीत्वाच्छलेन दशनच्छदमुग्रमानां,
भर्ता किमाह दयितां किमपि ब्रुवाणाम् ? ॥ ५१ ॥
॥ अधरंतवाहमपिबंधवोनमे ॥ द्विर्गतजातिः २ ॥
-
'प्रसक्ताः' इति २ |
'द्विर्गत' इति ३ ।
कल्पलतिकाटीकया विभूषितम्