________________
व्याख्याः- 'हे ऋषे ! त्वं कीदृशौ रागद्वेषौ समाधिना ध्यानविशेषेण किं कुरुषे?' इति प्रश्ने मुनिरुत्तरयति-कस्य-सुखस्य अरी -वैरिणौ कारी रागद्वेषौ अहं तृणहानि हन्मि। तृह-हिसि हिंसायाम्' [तृह हिंसायाम्, सार.रु.पर.पृ. ३२२]; [पाणि. धातु. १५४९,१५५०] तृहधातो: आशी:प्रेरणयोरानिपि रुधादित्वानमि 'तृणहानि' इति रूपसिद्धिः।
पक्षे, कक्षे तृणे शुष्कवने वा भीष्मग्रीष्मदवदहन: भीषणोष्णकालदावानलः कीदृशः स्यात्? उत्तरम्- तृणानां हानिकारी तृणहानिकारी, 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' [अनेकार्थसंग्रह २/५७२] इत्यनेकार्थनामकोषोक्तेः॥ द्विर्गतजाति:२॥४८॥
शुभगोरसभूमीरभि किमाह तज्ज्ञः स्मरेन्दिरापृष्टः ?। . विरहोद्विग्नः कामी निन्दन् दयितां किमभिधत्ते ?॥४९॥
॥क्षीरादिमनोहारीमासु॥गतागतजातिः॥ व्याख्याः- स्मरेन्दिराभ्यां-कामलक्ष्मीभ्यां पृष्टः स्मरेन्दिरापृष्टः, पाठान्तरे 'स्मरश्रियापृष्टः' सन् कश्चित्तज्ज्ञः गोरसभूमिज्ञः शुभगोरसभूमी: अभि आश्रित्य किम् आह ब्रूते?- क्षीरादिमनोहारि इम! आसु। इश्च मा च समाहारे इमम्, तस्य सम्बोधने- हे इम!-कामश्रियौ! आसुभूमिषु क्षीरादि-दुग्धादि मनोहरतीत्येवं शीलं मनोहारि वर्त्तते।
पक्षे, विरहेणोद्विग्नः विरहोद्विग्नः कामी दयितां निन्दन् किम् अभिधत्ते ब्रूते? सुष्ठ मारी-मारणात्मिका मारिरूपा वा सुमारी, हा खेदे, न:-अस्माकं मदिराक्षी- योषित् सुमारी हा नो मदिराक्षी॥ गतप्रत्यागतजातिः ॥ ४९॥
२.
'तृह हिंसायाम्' इति १। 'द्विर्गतजातिः' इति न ३। 'गतप्रत्यागतजातिः' इति न ३।
प्रश्नोत्तरैकषष्टिशतकाव्यम्