________________
सुभटोऽहं वच्मि रणे रिपुगलनालानि केन किमकार्षम् ?। चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः ?॥ ४६॥
॥असिनादासीः॥ द्विर्गतजातिः॥ व्याख्याः- अहं सुभटो वच्मि- रणे रिपुगलनालानि केन कृत्वा किमकार्षम् ? उत्तरम्-असिना खड्गेन त्वम् अदासी: लुनवान्, 'दाप् लवने' [पाणि. धातु. ११३५] भूतेऽसौ सिपि परे 'अदासी:' इति रूपम्।
___पक्षे, अहं चेटीप्रियो ब्रुवे- स्वगुणपाशैः काः किमकरवम्? उत्तरम्- असिना:-अबनाः, काः? दासी: चेटी:, 'सिञ् (षिञ्) बन्धने' [पाणि. धातु. १५७१] अनद्यतनीसिपि नाप्रत्यये 'असिनाः' इति रूपसिद्धिः॥ द्विर्गतजाति: ॥ ४६॥ भूषा कस्मिन् सति स्यात् कुचभुवि? मदिरा वक्ति कुत्रेष्टकाः स्युः?, कस्मिन् योधे जयश्रीयुधि सरति ? रतिः प्राजने कुत्र नोक्ष्णः?। कामद्वेषी तथोडुर्वदति दधि भवेत् कुत्र? किं वा वियोगे, दीर्घाक्ष्याः कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ?॥४७॥
॥हासुस्तनीसायताक्षीरे॥ व्यस्तं कमलमष्टदलम्॥ व्याख्या:- कुचभुवि हृदये कस्मिन् सति भूषा स्यात् ? हारे मुक्ताकलापे।
मदिरा वक्ति- इष्टकाः कुत्र स्युः?- हे सुरे! मदिरे! स्तरे भित्तिसत्के, 'घर'४ इति प्रसिद्धे।
I
१. २. ३.
'का' इति ३।। 'द्विर्गतजातिः' इति न ३। 'कुत्रेष्टिकाः ' इति मु. प्रतौ। 'थरे' इति ३। ।
x
प्रश्नोत्तरैकषष्टिशतकाव्यम्
३७