________________
व्याख्याः- पुमान् ब्रूते- 'मुरजिता कृष्णेन रतिकेलिकोपे सप्रश्रयं सस्नेहं प्रणमता प्रणामं कुर्वता का कां किमकारि?' इति प्रश्ने उत्तरम्- हे न:! पुरुष! अनारि नीता, 'अनारि' इति 'नृ नये' [पाणि धातु. ६२] इत्यस्य धातो रूपम्। का? ई श्रीः। काम्? प्रियं प्रणयम्, 'प्रीङ् प्रीतौ' [पाणि. धातु. १२१९] प्रणयम्। प्रीः प्रीतिः, क्विप्, तां प्रियम्।
दुःखी सुखाय कीदृशं पतिं वाञ्छति? कं-सुखं रातीति करः, तं करं सुखदायकम्।
पक्षे, कामी रतये सम्भोगाय कं प्रयोगमिच्छति? नरश्च नारी च ते, तयोः प्रियङ्करं-प्रीतिकरं नरनारीप्रियङ्करम्॥ व्यस्तसमस्तजाति: ॥ ४४ ॥ यूयं किं कुरुत जनाः स्वपूज्यमिति शिल्पिसुतखगौ ब्रूतः। स्मरविमुखचित्तजैनः कथमाशास्ते जनविशेषम् ?॥ ४५॥
संनमामकारुकुमारवी॥ गतागतः॥ व्याख्याः- शिल्पिसुतश्च खगश्च-पक्षी शिल्पिसुतखगौ इति ब्रूतः। इति किम्? हे जना (नाः)! यूयं स्वपूज्यं किं कुरुत? अत्रोत्तरम्- संनमाम कारुकुमारवी! कारुकुमारश्च विश्च कारुकुमारवी, तत्सम्बोधनम्-हे कारुकुमारवी! वयं संनमाम- प्रणामं करवाम।
___ पक्षे, स्मराद् विमुखं चित्तं यस्य सः, स चाऽसौ जैनश्च स्मरविमुखचित्तजैनः कञ्चिजनविशेषं कथम् आशास्ते शिक्षयति? प्रत्यागतेनोत्तरम्- हे वीर! मा कुरु कामे-कामभोगे मानसं-चित्तं काममानसम्॥ गतप्रत्यागतजाति: ॥ ४५ ॥
१. २.
'व्यस्तसमस्तजातिः' इति न ३। 'स' इति न १, २। 'गतप्रत्यागतजाति:' इति न ३।
कल्पलतिकाटीकया विभूषितम्