________________
ह
मधुरिपुणा निहते सति दनुजविशेषे तदनुगताः किमगुः ?। अभिदधते च विदग्धाः सत्कवयः कीदृशीर्वाचः?॥४३॥
॥अमृतमधुराः॥ द्विर्गतजातिः॥ - व्याख्याः- मधुरिपुणा हरिणा दनुजविशेषे दैत्यविशेषे निहते सति तदनुगताः तत्सेवकाः किम् अगुः अवादिषुः? उत्तरम्- अमृत प्राणत्यागं कृतवान् मधुः दानवः आः खेदे।
च: पक्षान्तरे, विदग्धाः सत्कवयः कीदृशीर्वाच: अभिदधते वदन्ति? अमृतवन्मधुरा अमृतमधुराः॥ द्विर्गतजातिः ॥ ४३॥
ब्रूते पुमान् मुरजिता रतिकेलिकोपे, सप्रश्रयं प्रणमता किमकारि का काम् ?। दुःखी सुखाय पतिमीप्सति कीदृशं वा? कामी कमिच्छति सदा रतये प्रयोगम् ?॥ ४४॥
॥ नरनारीप्रियङ्करम्॥[व्यस्तसमस्तजातिः ]॥
سه
'च' इति ।
२. 'द्विर्गतजाति: ' इति न ३। 'पतिमीसति' इति मु. प्रतौ। 'व्यस्तसमस्तजातिः' इति न १, २ ।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
»