________________
सीरी पाणिं व धत्ते? क्रतुरथमुदगात् स्यात् कया देहिनां भीबूंतेऽश्वः क्वारि विष्णुळधृत ? सविधगं हन्तुकामः किमाह ?। शम्भुंघ्नन्तं गजं द्राक् सदय ऋषिरगात् किं तु काक्वा ? तथास्मिन्, हारं किं नापि धत्से विरहिणि! नभसीत्यूचुषीं सा वदेत् किम् ?॥४२॥
॥हलेवर्षत्यायस्तेम्भोदेहारस्तीतः॥ द्वादशपत्रमिदं पद्मम्॥ व्याख्याः- सीरी हली हस्तं क्व धत्ते? हले लाङ्गले।
क्रतुः यागः मुच्च हर्षः अगाद् अब्रवीत्- देहिनां भीः कया स्यात्? हे हव! क्रतो! हे हर्ष ! हननं हतिः, तया हत्या ब्राह्मणादिघातेन।
__अश्वो ब्रूते-विष्णुः अरि चक्रं क्व व्यधृत दधौ? हे हय! अश्व! हस्ते करे।
हन्तुकाम: पुरीषोत्सर्ग कर्तृकामः सविधगं समीपस्थं जनं किम् आह-वक्ति? 'हम्भो' इत्यामन्त्रणे, अहं हदे पुरीषोत्सर्गं करोमि। 'हदे' इति 'हद पुरीषोत्सर्गे' [पाणि. धातु.१०४६] इत्यात्मनेपदिधातो रूपम्।
सदय ऋषिः गजं दैत्यं नन्तं शम्भुं प्रति काका काकोक्तया वचनविशेषेण किम् अगात् अवादीत् ? अत्रोत्तरम्- हहा इति खेदे, अयं दयाप्रकाशक:, हे हर! शङ्कर ! हस्ती गजो हतः विनाशितः।
'तथा' इति पक्षान्तरे, 'हे विरहिणि! अस्मिन् नभसि श्रावणे मासि त्वं हारं किं नापि धत्से न परिदधासि?' इति ऊचुषीं उक्तवन्तीं सखी प्रति सा विरहिणी किं वदेत्? हले! हे सखि! वर्षति वृष्टिं कुर्वति आयस्ते विस्तीर्णे अम्भोदे मेघे हार: तीतः आर्द्रभावं गतः॥ द्वादशदलं कमलम् ॥ ४२ ॥
१. २.
'काकोक्त्या-वचनविशेषेण' इति न २, ३ । 'प्रति' इति न १।
कल्पलतिकाटीकया विभूषितम् ।