SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कीदृग्मया सह रणे दैत्यचमूरभवदिति हरिः प्राह ? | लोको वदति किमर्थं का विदिता दशमुखादीनाम् ? ॥ ४० ॥ ॥ क्षीणारिहयवाहनाज ॥ गतागतः ॥ व्याख्या:- हरिर्वक्ति- मया सह रणे दैत्यसेना कीदृशी अभूत् ? उत्तरम् - क्षीणानि अरीणां हयवाहनानि यस्यां सा क्षीणारिहयवाहना हे अज! विष्णो! पक्षे, लोको वक्ति - रावणादीनां किमर्थं का विदिता ख्याता ? उत्तरम् — हे जन ! लोक ! आहवाय सङ्ग्रामाय हरिणाक्षी सीता ॥ गतप्रत्यागतजातिः ॥ ४० ॥ दृष्ट्वात्मनः किल कमप्यवसादवन्तं, स्वामी पुरः स्थितनरं किमभाषतैकम् ? | कश्चिद् ब्रवीत्ययि! जिगीषुनृपा अकार्षीत्, किं कीदृशो वदत राजगणोऽत्र केषाम् ? ॥ ४१ ॥ ॥ अयंसीदतिरेकोनः ॥ [ द्विर्गतजातिः ] ॥ व्याख्या : - कोऽपि स्वामी आत्मनः, पाठान्तरे ' अग्रतः ' कमपि अवसादवन्तं सविषादं जनं दृष्ट्वा एकं पुरः स्थितनरं किम् अभाषत उवाच? उत्तरम् — रे नः ! पुरुष ! अयं प्रत्यक्षोपलक्ष्यमाणः कः सीदति ? पक्षे, कश्चिद् वक्ति- 'अयि' इति सम्बोधने, हे जिगीषुनृपा( पा: ) ! यूयं वदत - कीदृशः केषां राजगणः किमकार्षीत् ? उत्तरम् - अयंसीत् हतवान् अतिरेकः अधिको नः अस्माकम् । क्वचिदवचूरौ तु 'अतिरेक:- निःशङ्कः सन् नः - अस्माकं राजगणः अयंसीत्-उपरतः अयंसीदतिरेकोन: ' इति ॥ द्विर्गतजातिः ॥ ४१ ॥ प्रश्नोत्तरैकषष्टिशतकाव्यम् ३३
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy