________________
स्वरूपम्, यद्वा विश्वरूपस्य भावो वैश्वरूप्यं कैः अलाभि लब्धम्? उत्तरम्- हे मे! लक्ष्मि! अ:-कृष्णः, तद्भक्तैः ऐः वैष्णवैरित्यर्थः॥ चतुर्गतजातिः ॥ ३८॥
गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोऽपि कुप्यन् किमाह ?। त्वमदलयपदं वा आश्रयाभावमूर्छाकटकनगविशेषान् कीदृगामन्त्रयेत?॥ ३९॥
॥आविप्रवमाद्यत्वमदम्॥ द्विर्गतजातिः॥ व्याख्याः- 'इह जगति सर्वस्याहं गुरुः, अहमग्रजन्मा ब्रह्ममुखोद्भूतत्वात्' इति अमुना प्रकारेण समदं साहङ्कारं भट्ट द्विजविशेषं अमदयिष्यन् मदरहितं करिष्यन् कोऽपि जैनादिः कुप्यन् किम् आह वक्ति? उत्तरम्- आ इत्याक्षेपे, हे विप्र! वम मुञ्च आद्यत्वमदं मुख्यत्वाहङ्कारम्।
वा पक्षान्तरे, त्वमदलयपदं कीदृशं सन्' आश्रयादिशब्दानामन्त्रयेत? उत्तरम्- आविप्रवमादि अत्वमदम्। आश्च विश्च प्रश्च वश्च मश्च आविप्रवमाः। आविप्रवमा आदौ यस्य तद् आविप्रवमादि। त्वश्च मश्च दश्च त्वमदाः। न विद्यन्ते त्वमदा यत्र तद् अत्वमदम्। ततः पूर्वविशेषणेन सह कर्मधारये आविप्रवमाद्यत्वमदम्। ततोऽयमर्थ:त्वमदलयपदे आद्यवर्णत्रये लुप्ते 'लय' इति स्थिते आदावविप्रमुखेषु वर्णेषु दत्तेषु यथाक्रमं 'आलय-विलय-प्रलय-वलय-मलय' एते शब्दाः सम्बोधनान्ता भवन्ति। तत्र 'आलय:-आश्रयः, विलयः- अभावः, प्रलय:-मूर्छा, वलय:-करभूषणम्, मलय:-गिरिभेदः' इति ॥ द्विर्गतजातिविशेषः ॥ ३९॥
१.
'सत्' इति १, २।
कल्पलतिकाटीकया विभूषितम्