________________
व्याख्या:- कश्चित् सदय: दयालुः क्षुत्क्षामकुक्षिं क्षुधाकृशोदरं कञ्चित् क्षितकं रङ्कम् उद्वीक्ष्य दृष्ट्वा व्यथितः पीडितः सन् किमाह ? हा इति खेदे, हे वराक! तपस्विन् ! निरशन! गतभोजन!
पक्षे, दारुणा:-भीषणा धन्विन:-धनुर्धरा यत्र सः, तस्मिन् दारुणधन्विनि समरे कातरनरश्रेणिः कीदृग् भवति? अत्रोत्तरं प्रत्यागतेन- न शरनिकरावहा। निकरं-बाणगणमावहतीति शरनिकरावहा, ईदृशी न भवति॥ गतप्रत्यागतजातिः॥ ३७॥
चन्द्रः प्राह वियोगवानकरवं किं रोहिणीं प्रत्यहं ?, शम्भो! केन जवाददाहि सरुषा कस्याङ्गयष्टिः किल ?। शीघ्रं कैः पथि गम्यतेऽथ कमला ब्रूते मुहुर्वल्लभ!, ध्यानावेशवशादलाभि पुरतः कैर्वैस्वरूपं मम?॥ ३८॥
॥ मयैः॥ चतुःसमस्तः॥ व्याख्या:- चन्द्रः प्राह- अहं वियोगवान् विरही सन् रोहिणीं प्रति किम् अकरवम् अकार्षम्? उत्तरम्- हे म:!-चन्द्र! त्वं ऐ:- अगच्छ:, 'इण् गतौ' [सार.अ.पर.पृ.२७६] [पाणि. धातु. ११२०] अनद्यतनीसिपि अडागमे वृद्धौ च 'ऐः' इति रूपम्। - क्वचिदवचूरौ तु – ऐः स्मृतवान्, 'इक् स्मरणे' [सार.अ.पर.पृ. २७७] [पाणि. धातु.११२२] इत्यस्य रूपं व्याख्यातमस्ति, परं 'इडिकावध्युपसर्गतो न व्यभिचरतः' [सार]; [पाणि.] इत्युक्तेरध्यु-पसर्गरहित इक्प्रयोगोऽत्र विमृश्य इति।
हे शम्भो! केन सरुषा सकोपेन कस्य अङ्गयष्टिः तनुः अदाहि दग्धा? उत्तरं शिवो वदति- मया ए: कामस्य।
पथि मार्गे शीघ्रं कैर्गम्यते? मयैः उष्ट्रः। अथ कमला ब्रूते- वल्लभ! ध्यानावेशवशात् वै स्फुटं मम
प्रश्नोत्तरैकषष्टिशतकाव्यम्