________________
व्याख्या:- अग्रे केन गम्येत भूयेत? हला व्यञ्जनेन, स्वरात्प्रथमं व्यञ्जनं भवतीति।
सन्तः सज्जनाः प्रविरल:-स्तोकः, मसृण:-स्निग्धः, ततः कर्मधारये प्रविरलमसृणः, तं प्रविरलमसृणं कं प्रशंसन्ति श्लाघन्ते?हसं हसितम्।
पाणिर्वक्ति- जटी जटाधरः कं प्रणमति? हे हस्त! हरं शम्भुम्।
विधवा स्त्री कीदृशी न प्रशस्या? हसतीति हसा हसनशीला। स्तेन: चौरो वक्ति- वेगः क? हे हर! चौर! हये अश्वे।
रणभुवि युद्धभूमौ शत्रुपक्षौ मिथः परस्परं किं कुरुतः? हतः प्रहरतः, 'हन हिंसागत्योः ' [सार.अ.पर.पृ. २७३] [पाणि.धातु.१०८२] वर्तमाना तसि ‘हतः' इति रूपम्।
___ अथ द्वितीयपक्षे, उद्वेगस्य विरहोद्भूतचित्तनिर्वेदस्य वेगेन प्रसरेण जाताऽरतिर्यस्या सा तथा, ईदृशी सुषुप्सुः सुप्तुमिच्छुः स्त्री सखी प्रति किं वदति? हला-हे सखि! संस्तरं-शयनीयं सारय-प्रगुणीकुरु इतःअत्र स्थाने 'हला! संस्तरं सारयेतः' इति। अत्र हलाशब्दः सखीसम्बोधने, यदुक्तम्- सखीहूतौ हण्डे-हळे-हला( लाः) क्रमात् [अभिनाम. २/३३४] ॥ इदमष्टदलं कमलम् ॥ ३६॥
ला
व्यथितः किमाह सदयः क्षितकं क्षुत्क्षामकुक्षिमुद्वीक्ष्य ?। दारुणधन्विनि समरे कीदृक्कातरनरश्रेणि: ?॥ ३७॥
॥हावराकनिरशन॥ गतागतः॥ कल्पलतिकाटीकया विभूषितम्