________________
पक्षे, कीदृक् पवदनदपदं पूतादिवाचकान् शब्दान् वदति ? पूतञ्च वातश्च परितापश्च म्लेच्छश्च उपास्तिश्च नुतिश्च गृहञ्च क्रीडा च होमश्च विश्वञ्च वेगवांश्च, ते तथा, तान् । उत्तरम् - पाश्च पश्च दश्च यश्च सेश्च स्तश्च भश्च देश्च हश्च भुश्च जश्च [पापदयसेस्तभदेहभुजाः ], एते आदौ' यस्य तत् पापदयसे - स्तभदेहभुजादि । तथा विपदम् । दश्च दश्च दौ, पश्च दौ च पदाः, विगताः पकारदकारा यस्मात् तद् विपदम् । ततः पूर्वविशेषणेन सह कर्मधारये पापदयसेस्तभदेहभुजादिविपदम् । अयमर्थः- 'पवदनद' इति पदे पकारे दद्वये च लुप्ते 'वन' इति भवति । तत आदौ पापदादिष्वेकादशवर्णेषु दत्तेषु यथाक्रमं - 'पावनपवन-दवन-यवन-सेवन - स्तवन- भवन - देवन - हवन - भुवन - जवन' इति शब्दा भवन्ति ॥ द्विर्गतजातिः ॥ ३४॥
औषधं प्राह रोगाणां मया कः प्रविधीयते ? | जामातरं समाख्याति कीदृशो वठरध्वनिः ? ॥ ३५ ॥ ॥ अगदशमः ॥ [ विषमजातिः ] ॥ व्याख्या:- औषधं वदति मया रोगाणां कः क्रियते ? हे अगद! औषध ! शमः, त्वया रोगाणामुपशमो विधीयते ।
पक्षे, कीदृशो वठरशब्द : जामातरं समाख्याति ब्रूते ? उत्तरम् - . न विद्यते गकाराद्दशमः ठकारो यत्र स अगदशमः, वठरशब्दे ठरहिते 'वर' इति भवति ॥ विषमजातिः २ ॥ ३५॥
-
अग्रे गम्येत केन ? प्रविरलमसृणं कं प्रशंसन्ति सन्तः ?, पाणिब्रूते जटी कं प्रणमति ? विधवा स्त्री न कीदृक् प्रशस्या ? | वक्ति स्तेनः क्र वेगो ? रणभुवि कुरुतः किं मिथः शत्रुपक्षावुद्वेगावेगजातारतिरथ वदति स्त्री सखीं किं सुषुप्सुः ? ॥ ३६ ॥ ॥ हलासंस्तरंसारयेतः ॥ अष्टदलं पद्मम् ॥
१.
'आदौ' इति न ३ । 'विषमजातिः' इति न १ ।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
२९