SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भवति चतुर्वर्गस्य प्रसाधने क इह पटुतरः प्रकटः? पृच्छत्यङ्गावयवः कः पूज्यतमस्त्रिजगतोऽपि?॥३३॥ ॥नाभेयः॥ वर्धमानाक्षरजाति:॥ व्याख्याः- चतुर्वर्गस्य धर्मार्थकाममोक्षरूपस्य प्रसाधने पटुतरः समर्थः कः प्रकटः ?, 'श्रेष्ठो वा' इति पाठान्तरे। उत्तरम्-ना पुमान्। अङ्गावयवः पृच्छति- त्रिजगतोऽपि पूज्यतमः अतिशयेन पूज्यः कः? हे नाभे! अङ्गावयव! नाभेयः आद्यो जिनः॥ वर्द्धमानाक्षरजातिः ॥ ३३॥ वैदिकविधिविशस्तबस्तामिषमदतां स्वर्गदं द्विजं, जैनादिः किमाह साक्षेपं सासूयं सकाकु च? कीदृक् । पूतवातपरितापम्लेच्छोपास्तिनुतिगृहक्रीडाहोमविश्ववेगवतो जल्पति पवदनदपदम् ?॥ ३४॥ ॥पापदयसेस्तभदेहभुजादिविपदम्॥ द्विर्गतः॥ व्याख्याः- वैदिकेन-वेदोक्तेन विधिना विशस्ताः-हता ये बस्ता:-अजा वैदिकविधिविशस्तबस्ताः, तेषामामिषं-मांसं वैदिकविधि-विशस्तबस्तामिषम् अदतां भक्षयतां जनानां स्वर्गदं ब्राह्मणं प्रति जैनादिः कृपालुजनः साक्षेपं साक्रोशं सासूयं सरोषं सकाकु सवचोविकारं च किम् आह ब्रवीति? उत्तरम्- पाप! दयसे स्तभदेहभुजा दिवि पदम्। रे पाप!-अधम! दयसे-ददासि स्तभस्यछागस्य देहः-कायः, तस्य भुग्-भक्षणम्, तया स्तभदेहभुजा दिविस्वर्गे पदं-स्थानम्। अयमर्थः - ‘रे पापिष्ठ! छागमांसभक्षकाणां यज्ञविधायिनां स्वर्गस्थानं त्वं ददासि' इति साक्षेपकाकूक्तिः। १. २. 'वर्द्धमानाक्षरजातिः' इति न ३। 'कृपालुः' इति १। कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy