________________
केनोद्वहन्ति दयितं विरहे तरुण्यः? प्राणैः श्रिया च सहितः परिपृच्छतीदम्। तार्क्ष्यस्य का नतिपदं ? सुखमत्र कीदृक् ?;
किं कुर्वताऽन्यवनितां किमकारि कान्ता?॥ ३२॥ ॥ मनसा, सानम! विनता, तानवि, नमता-ऽसावि॥ मन्थानान्तरजातिः।
व्याख्याः- तरुण्यः युवत्यो विरहे वियोगावस्थायां दयितं प्रियं केनोद्वहन्ति? मनसा हृदयेन।
प्राणैः श्रिया च सहितः कश्चिदिदं परिपृच्छति- 'तार्क्ष्यस्य गरुडस्य नतिपदं प्रणामस्थानं का?' इति प्रश्ने उत्तरम्- सह आनैःप्राणैः मया च श्रिया' वर्त्तते यः स सानमः, तत्सम्बोधनम्-हे सानम! विनता गरुडमाता।
___ अत्र जगति सुखं कीदृग्? तनो वस्तानवम्, तद्विद्यते यस्य तत् तानवि, अल्पतान्वितमित्यर्थः।
केनचित् पुंसा अन्यवनितां किं कुर्वता कान्ता स्वकीया किमकारि? उत्तरम्- नमता असावि। नमता-अन्यकान्तायाः प्रणाम कुर्वता स्वकान्ताऽसावि-रोषिता प्रेरिता वा, 'षू प्रेरणे' [पाणि.धातु. १५०२] इति वचनात् ॥ मन्थानान्तरजाति: ॥ ३२॥
१.
'लक्ष्या' इत्यग्रेऽधिकः पाठः ३ । 'मन्थानजातिः' इति न ३।
प्रश्नोत्तरैकषष्टिशतकाव्यम्
२७