SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सोत्कर्षम्-अतिशयेन तर्षातुराः-तृषिताः सोत्कर्षतर्षातुराः किं वाञ्छन्ति? पयः नीरम्। दारिद्र्यमुद्राभृतां दरिद्राणां हृदयं के हरन्ति? रायः-द्रव्याणि। अथाऽऽहवेषु युद्धेषु अन्योन्यं मिथः स्पर्धावद्भिः सुभटैः कः अन्विष्यते अभिलष्यते? जयः विजयः। पक्षे, जैनाज्ञायां रता जैनाज्ञारताः। शान्तं- क्रोधाभावेन दान्तमिन्द्रियदमेन मनो येषां ते शान्तदान्तमनसः। ततः पूर्वविशेषणेन सह कर्मधारये जैनाज्ञारतशान्तदान्तमनसः साधवः कीदृशा भवन्ति ? उत्तरम्- न विद्यते परेषु परैः सह वा आजि:-सङ्ग्रामो येषां ते अपराजयः। यद्यपि पञ्चदशे श्लोके इदमेवोत्तरमस्ति, तथाप्यत्र भिन्नार्थत्वेन भिन्नजातित्वेन च न पौनरुक्त्यमाशङ्कनीयम्। मञ्जरीसनाथजाति: ॥ ३०॥ पापं पृच्छति विरतौ को धातुः? कीदृशः कृतकपक्षी? उत्कण्ठयन्ति के वा विलसन्तो विरहिणीहृदयम् ?॥ ३१॥ ॥ मलयमरुतः॥ [व्यस्तसमस्तजातिः ]॥ व्याख्याः- पापं पृच्छति- विरतौ उपरमे को धातुः? हे मल! पाप! यम्, 'यमु( म) उपरमे' [सार.भ्वा.पर.पृ. २३८] [पाणि. धातु. १०५३] इति धातुपाठोक्तेः। __ कृतक:- कृत्रिमः, काष्ठादिमयः स चासौ पक्षी च कृतकपक्षी कीदृशः? अरुतः। न विद्यते रुतं-शब्दितं यस्य सः अरुतः। वा पक्षान्तरे, के विलसन्तः प्रसरन्तो विरहिणीहृदयम् उत्कण्ठयन्ति सोत्कण्ठं कुर्वन्ति? मलयस्य-पर्वतस्य मरुतः-वाता मलयमरुतः, दक्षिणानिला इत्यर्थः॥ व्यस्तसमस्तजातिः ॥ ३१ ॥ १. 'मञ्जरीसनाथजातिः' इति न ३ । २. 'व्यस्तसमस्तजातिः' इति न ३ । कल्पलतिकाटीकया विभूषितम् २६
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy