SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सुरते सम्भोगे श्रियः लक्ष्म्याः कः प्रियः सुखकरः? अलयः। अस्य-विष्णोर्लयः-संश्लेषः अलयः। पक्षे, विन्ध्यवसुन्धरासु विन्ध्याचलभूमिषु सदा सर्वकालम् उन्मुदः समुद्भूतानन्दाः काः क्रीडन्ति रमन्ते? उत्तरम्- अनेकपाःहस्तिनः, तेषामावलय:-श्रेणयः अनेकपावलयः॥ व्यस्तसमस्तजातिः ॥ २८॥ 'मूषिकानिकरः कीदृक् खलधान्यादिधामसु ?। भीरुसम्भ्रमकारी च कीदृगम्भोनिधिर्भवेत् ?॥ २९॥ ॥वि( बि)लसद्मकरः॥ एकालापकजातिः॥ व्याख्या:-मूषिकानिकर: पाठान्तरे मूषकनिकरः खलधान्यादिधामसु खलधान्यादिस्थानेषु कीदृग् भवति? बिलान्येव सद्मानिगृहाणि बिलसद्मानि, तानि करोतीति बिलसद्मकरः। . भीरूणां सम्भ्रमकारी-भयङ्करो भीरुसम्भ्रमकारी समुद्रः कीदृग् भवेत्? उत्तरम्- विलसन्तो मकरा:- मत्स्यविशेषारे यत्र स विलसद्मकरः ॥ एकालापकजातिः ॥२९॥ किं लोहाकरकारिणामभिमतं? सोत्कर्षतर्षातुराः,, किं वाञ्छन्ति? हरन्ति के च हृदयं दारिद्र्यमुद्राभृताम् ?। स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योन्यमन्विष्यते?, जैनाज्ञारतशान्तदान्तमनसः स्युः कीदृशाः साधवः ?॥३०॥ ॥अपराजयः॥ मञ्जरीसनाथजातिः॥ व्याख्याः- लोहाकरकारिणां किमिष्टम्? अयः लोहः। 'मूषक' इति मु. प्रतौ। 'भीरुः' इति मु. प्रतौ। 'मतस्यविशेषाः' इति न १, २। प्रश्नोत्तरैकषष्टिशतकाव्यम् । | مه به سه
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy