________________
उत्तरम्-वीन्-पक्षिणोऽन्तयति-विनाशयतीति व्यन्तः, तत्सम्बोधनम्-हे व्यन्त ! पक्षिहन्त ! रा: द्रव्यम्।
नभसि भूतो भणति-विसर्गः कीदृशः स्यात् ? दिविगगने भवो दिगादिद्वारेण यप्रत्यये दिव्यः, तत्सम्बोधनम्- हे दिव्य! सम्-सकारं तस्यतीति स्तः, क्विप्।।
पक्षे, हे कवीन्द्राः! यूयं कथयत-जविनशब्दः कीदृशः सन् जनशून्यं जनरहितस्थानं कजलं भर्त्सनं च वदति ? उत्तरम्विश्च अश्च तर् च व्यन्तरः, ते आदौ यस्य स व्यन्तरादिः। विः अस्त:क्षिप्तो यत्र स व्यस्तः। व्यन्तरादिश्चासौ व्यस्तश्च व्यन्तरादिव्यस्तः। अयमर्थः- जविनशब्दे विकारे लुप्ते 'जन' इति भवति। ततः 'विअं-तर्' एतेष्वादौ दत्तेषु यथाक्रम- 'विजन-अञ्जन-तर्जन' इति शब्दत्रयं स्यात्॥ व्यस्तसमस्तभेदः ॥२७॥
वीतस्मरः पृच्छति कुत्र चापलं, स्वभावजं? कः सुरते श्रियः प्रियः ?। सदोन्मुदो विन्ध्यवसुन्धरासु, क्रीडन्ति काः कोमलकन्दलासु ?॥ २८॥
॥ अनेकपावलयः॥ व्यस्तसमस्तजातिः ॥ व्याख्या:- वीतस्मरः निष्कामः पृच्छति- स्वभावजं नैसर्गिकं चापलं चापल्यं कुत्र? उत्तरम्- न विद्यते इ:-कामो यस्याऽसौ अनिः, तस्य सम्बोधनं क्रियते- हे अने! अकामिन् ! कपौ वानरे।
१.
. 'भवति' इति ३।। 'व्यस्तसमस्तजाति:( जातिभेदः)' इति न ३। 'सदोन्मदा' इति ३। 'व्यस्तसमस्तजातिः' इति न ३।
कल्पलतिकाटीकया विभूषितम्