________________
पातीति पात्री, 'पा रक्षणे' [सार.अ.पर.पृ. २७२] [पाणि. धातु. ११३२] तृप्रत्ययः, ततः 'व्रण ईप्' [सा.सू. ३६६] पात्री रक्षिका प्रभुः विश्वस्वामिनी, ईदृशी जिनपक्तिः जिनश्रेणिः कीदृशी अवाचि उक्ता? उत्तरम्- विना! अवतीति क्विपि ऊ:-रक्षिका, इनास्वामिनी, ऊश्च इना च विना।
इह जगति कीदृग्विधा वनिता स्त्री नृपतेः राज्ञः अदृश्या द्रष्टमयोग्या? उत्तरम्- विग्रा विगतनासिका, 'विखु-विना अनासिके' [अभि. नाम. ३/४५०] इत्युक्तेः।
प्रस्थाष्णु:- चलनशीलो यो विष्णुः, तस्य तनुः प्रस्थाष्णुविष्णुतनुः कीदृशी ऐक्ष्यत जनैरदृश्यत? उत्तरम्- विषु-पक्षिषु प्रधानो गरुडोऽग्रे यस्याः सा विप्रधानाग्रा॥ चतुर्दलपद्मजातिः ॥२६॥
वदति विहगहन्ता कः प्रियो निर्धनानां ?, भणति नभसि भूतः कीदृशः स्याद्विसर्गः?। वदति जविनशब्दः कीदृशः सन्' कवीन्द्राः! कथयत जनशून्यं कज्जलं भर्त्सनं च ?॥ २७॥
॥ व्यन्तरादिव्यस्तः॥ व्यस्तसमस्तजाति: [ जातिभेदः ]॥ व्याख्याः- विहगहन्ता वक्ति- निर्धनानां कः प्रियः? 'सत्' इति मु. प्रतौ। 'जनशून्यः' इति मु. प्रतौ।
२.
प्रश्रोत्तरैकषष्टिशतकाव्यम्