SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ बलं वदति - अर्कः सूर्यः किम् अतनोत् विस्तारयामास ? उत्तरम् - हे सहः ! सहस्शब्दो बलवाची, मह: तेजः । जिनैः को दध्वंसे ध्वस्त : ? उत्तरम् - मोहः । विरहिषु वियोगिषु सदा नित्यं कः प्रसरति ? उत्तरम् - दाहः विरहसमुद्भवदहनम् । धौरेयाणां धुर्यवृषभाणां निरुपहतमूर्तिः को भारं वहति ? उत्तरम् - वहः स्कन्धप्रदेशः । पक्षे, जिनकल्याणकमहः भगवत्कल्याणकोत्सवः सुरेन्द्राणां कीदृग् भवति ? अत्रोत्तरम् - असमम्-असदृशम्, अप्रमाणं वा मोदं हर्षमावहतिप्रापयति करोतीति असममोदावहः ॥ मञ्जरीसनाथजातिः ॥ २५ ॥ प्राह द्विजो गजपतेरुपनीयते का ?, पात्री प्रभुश्च जिनपङ्क्तिरवाचि कीदृक् ? | कीदृग्विधेह वनिता नृपतेरदृश्या ?, प्रस्थाष्णुविष्णुतनुरैक्ष्यत कीदृशी च ? ॥ २६ ॥ ॥ विप्र !, विधा, विना, विग्रा, विप्रधानाग्रा ॥ [ चतुर्दल ]पद्मजातिः ॥ व्याख्या:- द्विजः प्राह वक्ति- गजपतेः गजेन्द्रस्य का उपनीयते ढौक्यते ? उत्तरम् - हे विप्र ! विधा हस्त्याहारविधिः, 'विधर्द्धिमूल्ययोः प्रकारे भान्नविधिषु' [ अनेकार्थसंग्रह २ / २४५ ] इति हेमानेकार्थोक्तेः । १. २. २२ 'सदा - नित्यम्' इति न २, ३ । 'प्रापयति' इति न २। 'रैक्षत' इति मु० प्रतौ । कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy