________________
ब्रूते पुमांस्तन्वि! तवाधरं कः, क्षणोति ? को वा मनुजव्रजच्छित् ?। प्रिये! स्वसान्निध्यमनभ्युपेते, किमुत्तरं यच्छति पृच्छतः श्री:?॥ २४॥
॥ नारदः॥ त्रिर्गतः॥ व्याख्याः- पुमान् ब्रूते- हे तन्वि! कृशाङ्गि! तवाधरं कः क्षणोति खण्डयति? उतरं सा प्राह- हे नः! पुरुष! रदः-दशनः। ततः सन्धियोगे 'नारदः' इति स्यात्।
___ मनुजानां व्रज-वृन्दं छिनत्तीति मनुजव्रजच्छित् कः? उत्तरम्नारदः। नराणां समूहो नारम्, तद् द्यति-खण्डयति यः स नारदः।
___ 'प्रिये कृष्णे स्वसमीपमनभ्युपेते अनागते सति पृच्छतो जनस्य श्रीः किमुत्तरं यच्छति दत्ते?' इति प्रश्ने उत्तरम्– न आरत् नागतः अ:-कृष्णः । 'ऋ-सृ गतौ २' [ ऋ गतौ', सार.जु.पर. पृ. २९८]; [पाणि. धातु ११७३, ११७४] इत्यस्य भूतेऽसौ 'आरत्' इति रूपसिद्धिः॥ त्रिर्गतजातिः ॥ २४॥
किमिष्टं चक्राणां? वदति बलमर्कः किमतनोत् ?, जिनैः को दध्वंसे? विरहिषु सदा कः प्रसरति ?। भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?, सुरेन्द्राणां कीदृग् भवति जिनकल्याणकमहः ?॥ २५॥
॥असममोदावहः॥ मञ्जरीसनाथजातिः॥ व्याख्याः- चक्राणां चक्रवाकपक्षिणां किम् इष्टं प्रियम्? उत्तरम्- अहः दिनम्।
१. २.
'क्षिणोति' इति मु. प्रतौ। 'ऋ-सृ गतौ' इति १।
प्रश्रोत्तरैकषष्टिशतकाव्यम्
२१