________________
वारितव्यथायै । अत्रोत्तरम्- अजा:! मदहतभा पू: व: मेने। अयमर्थ:'अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे' [अनेकार्थसंग्रह २। ६४] इति वचनात् हे अजाः!-कामाः! वः-युष्माकं पू:-शरीरं मेनेमनिता। कीदृक् पू:? मया अहता भा-प्रभा यस्याः सा मदहतभाशिवेनेत्युत्तरमदायि।
पक्षे, कीदृग् मुजध्वनिः 'मुज' इति शब्दः क्व कस्मिन् सति पश्चादुद्भवादिवाचकशब्दान् अगात् अवदत्? तत्र पश्चादुद्भवः-लघुभ्राता मन्दः-शनिः, शेषाः सुगमा एव। अत्रोतरम्- अजामदहतभापूर्वो मे ने। अश्च जाश्च मश्च दश्च हश्च तश्च भाश्च अजामदहतभाः, ते पूर्वे यस्य स: अजामदहतभापूर्वः। तथा मे-मुजशब्दसम्बन्धिमकारे ने-नकारे कृते सति। एतावता मुजस्थाने 'नुज' इति जाते आदावजादिषु वर्णेषु दत्तेषु यथाक्रम- 'अनुज-जानुज-मनुज-दनुज-हनुज-तनुज-भानुज' इति शब्दा भवन्ति। हनुजः- अन्त्यदन्ष्ट्रा, भानुजः-शनिः, शेषाः स्पष्टा एव॥ विषमजातौ द्विसमस्तः ॥२२॥
जलस्य जारजातस्य हरितालस्य च प्रभुः। मुनिर्यं प्रश्रमाचष्ट' तत्रैव प्रापदुत्तरम्॥ २३॥
॥काकुलालेन मृद्यते॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः- जलादिस्वामी कश्चिद् मुनिर्यं प्रश्रम् आचष्ट वक्ति स्म, तत्रैव प्रश्ने उत्तरं प्रापत्।
तथाहि- 'कुलालेन कुम्भारेण का मृद्यते?' इति प्रश्ने इदमेवोत्तरम्- कं-जलम्, अकुल:-जारजातः, आल:-हरितालः, कञ्च अकुलश्च आलश्च काकुलालाः, तेषामिनः स्वामी, तत्सम्बोधनम्- हे काकुलालेन! यते! मृत् मृत्तिका ॥['समवर्णप्रश्न प्रश्नोत्तर )जातिः ] ॥ २३ ।।
'यः' इति ३। २. 'आचष्टे' इति मु. प्रतौ। ३. 'समवर्ण' इति न २। ४. 'आलश्च' इति न २।
'समवर्णप्रश्रजातिः' इति न ३।
कल्पलतिकाटीकया विभूषितम्