SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अभिसारिकाह कश्चि'-तरुणाः किं कुर्वतेऽत्र कं कस्याः?। रतिसङ्गरे मृगदृशः किं किमकार्षीत् कथं कामी ?॥ २१॥ ॥समयंते अधरदलम्॥ समस्तव्यस्तजातिः ।। व्याख्याः- या प्रियमभिसरति सा अभिसारिका कश्चिद् इष्टपरिप्रश्ने, ‘कञ्चित्' इति पाठे तु कञ्चन पुरुषं प्रति आह' ब्रूते - तरुणाः युवानः कस्याः कं किं कुर्वते? अत्रोत्तरम्- समयन्ते समागच्छन्ति समयं सङ्केतं ते तव। 'कामी पुमान् रतिसङ्गरे सम्भोगरूपसङ्ग्रामे मृगदृशः मृगाक्ष्याः स्त्रियाः किं कथं किमकार्षीत्?' इति प्रश्ने उत्तरम्- अधरदलम् ओष्ठपुटम् अधरत् धृतवान् अलम् अत्यर्थम्। . वचिदवचूरौ तु 'अधरत् अखण्डयत्' इति दृश्यते । अत्राऽऽर्यार्धेन पृथक्-पृथगुत्तरम्। उभयत्रापि समस्तव्यस्तजातिः ॥ २१॥ कामाः प्राहुरुमापते! तव रुषः प्रागत्र कीदृग् सती, का केषां किमकारि वारितनुदे रत्या स्वचेतोमुदे ?। पश्चादुद्भवजानुसम्भवनरान् दैत्यान्त्यदन्ष्ट्राङ्गजान्, मन्दं च क्रमशो मुजध्वनिरगात् कीदृक् क्व कस्मिन् सति?॥२२॥ ॥अजामदहतभापूर्वो मेने॥ द्विःसमस्तजातिः॥ व्याख्याः- कामाः प्राहुः पृच्छन्ति- हे उमापते! ईश! अत्र जगति तव क्रोधात्पूर्वं कीदृशी सती का केषां रत्या कामभार्यया किमकारि? कस्यै? स्वचेतोमुदे स्वमन:प्रमोदाय, कीदृश्यै स्वचेतोमुदे? वारिता नुद्-प्रेरणा यस्याः सा, तस्यै। 'वारिततुदे' इति पाठे तु 'कांश्चिन्' इति मु. प्रतौ। २. 'आह' इति न २ । 'कम्' इति न ३। 'कीदृक्' इति २। - m4 प्रश्नोत्तरैकषष्टिशतकाव्यम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy