SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ व्याख्याः- 'ऋषयः मुनयः कं परमार्थतः किं प्राहुः?' इति प्रश्ने उत्तरम्- विलं गलम्। गलं-कण्ठं बिलं-विवररूपं प्राहुः। वारिधेः किं दुर्गमं दुःप्रापम्? तलं मध्यभूतलम्, जलाधोभाग इत्यर्थः। विद्याः कं न भजन्ति? उत्तरम्- जडं मूर्खम्, डलयोरैक्यात् । रागिमिथुनं कीदृक्? उत्तरम्- ललं विलासयुग् भवति, 'लल(ड)विलासे' [पाणि. धातु ३८३] इति धातुपाठोक्तेः। अर्धं किम्? दलं खण्डम्। रक्षांसि राक्षसाः किं स्पृहयन्ति? पलं मांसम्। तनुमतां प्राणिनां सुखार्थादिकं भोगधनादिकं कीदृक्? उत्तरम्टलं चञ्चलम्। वर्षाष्वपि प्रावृट्कालेऽपि कीदृक् व्योम कर्षकलोकानांहालिकजनानां हर्षजनकं कर्षकलोकहर्षजनकं न स्यात् ? विगतजलदपटलम् अपगतमेघवृन्दम्॥ विपरीतमष्टदलकमलमिति ॥ यत्रान्त्याक्षरं कर्णिकायां लिखितं दलगताक्षरैरावर्त्यते तद्विपरीतं पद्ममुच्यते, एवमग्रेऽपि विज्ञेयम्॥ २० ॥ त कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy