________________
कथनं कथं भवति? इति किम् ? नाभ्यम्भोजभुवः ब्रह्मणः स्मरस्य च रुचः कान्ती: विस्तारय । अत्रोत्तरम् - विभा वितानय अ! उ:वेधाः, इ:-काम:, उश्च इश्च वी, तयोर्भाः विभाः, ता विभा वितानयविस्तारय हे अ ! - विष्णो !
अथो पक्षान्तरे, 'पत्नी कीदृशी इष्यते ?' इति कमला श्री : आख्यत् उवाच। इति प्रश्ने उत्तरं प्रत्यागतेन - या नता विभौ इ! या पत्नी नता - नम्रा विभौ - पत्यौ हे इ ! लक्ष्मि !
तथा कलिकाले कुराज्यस्थितिः कीदृक् ? उत्तरम् - विभावितः - प्रकटितोऽनयः - अन्यायः यस्याम्, यया वा सा विभावितानया ।
अहनि दिने चण्डभास्करकरैः प्रचण्डदिनकरकिरणैः कृत्वा कीदृश्या नक्षत्रराज्या नक्षत्र श्रेण्या अजनि बभूवे ? उत्तरम् - विगतो भायाः-'कान्तेर्वितान:- विस्तारो यस्या:, तथा तया विभावितानया ॥ गतप्रत्यागतद्विर्गतजातिः ॥ १७ ॥
प्रभुमाश्रित्य श्रीदं किमकुर्वन् के कया समं लक्ष्मि ! ? | कह केरिया के मरणमुवगया लुद्धयनिरुद्धा ? ॥ १८ ॥
॥ समगंसतासा मया ॥ द्विर्गतभाषाचित्रजातिः ॥
व्याख्या:- कश्चिज्जनो लक्ष्मीं पृच्छति- 'हे लक्ष्मि ! के जना: श्रीदं लक्ष्मीदायकं प्रभुं स्वामिनम् आश्रित्य सेवित्वा कया समं किमकुर्वन् ?' इति प्रश्रे उत्तरं लक्ष्मीः प्राह - समगंसत असा मया । कोऽर्थ : ? - ते असाः, न विद्यते सा - लक्ष्मीर्येषां ते असाः-निर्धना जना मया - लक्ष्म्या सह समगंसत-सङ्गं गतवन्तः, सलक्ष्मीका जाता इत्यर्थः ।
·
'कान्त्या वितान:' इति १ ।
१.
१६
कल्पलतिकाटीकया विभूषितम्