________________
।
माख्याति ? उत्तरम्- अकारात्परोऽच्-स्वरः प्रस्तावादिकार: अपराच्, तस्याऽय:-क्षयो यत्राऽशिवध्वनौ सः अपराजयः । एतावताऽशिवशब्दे इकारलोपे 'अश्वः' इति भवति ॥ विषमजातिः ॥ १५ ॥
पीनकुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौल:?। हरनिकरपथस्वःसृष्टिवाचि नर्नगपदं कीदृक् ?॥ १६॥
॥ भवमास्वसादिशस्तनम्॥[द्विर्गतजातिः ] व्याख्या- पीनकुचावेव कुम्भौ पीनकुचकुम्भौ, तत्र लुभ्यन्लोलुपः सन् पीनकुचकुम्भलुभ्यन् स्मरातुरः कामार्तः कौलः नास्तिकः 'कश्चित्' इति पाठे त्वन्यो वा कश्चिद् भगिनीं प्रति किम् आह' ब्रूते? उत्तरम्- भव मा स्वसा, दिश स्तनम्। त्वं स्वसा-भगिनी मा भवमा भूः, स्तनं दिश-देहि।
पक्षे, नर्नगपदं कीदृक् सन् हरनिकरादिवाचकं स्यात्?' इति प्रश्ने उत्तरम्- भश्च वश्च माश्च स्वश्च सश्च भवमास्वसाः, ते आदौ यस्य तद् भवमास्वसादि, शस्तौ-लुप्तौ नौ-नकारौ यत्र तत् शस्तनम्, ततः कर्मधारयः। 'नर्नग' इति पदे नद्वये लुप्ते 'र्ग' इति स्थिते ततो भवादिवर्णेष्वादौ दत्तेषु यथाक्रम-'भर्ग-वर्ग-मार्ग-स्वर्ग-सर्ग' इति भवति ॥ द्विर्गतजातिः ॥ १६ ॥ नाभ्यम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः प्रत्युपदेशनं कथमथो पत्नीष्यते कीदृशी?। इत्याख्यत् कमला तथा कलियुगे कीदृक्कुराज्यस्थितिः? कीदृश्याऽहनि चण्डभास्करकरैर्नक्षत्रराज्याऽजनि?॥ १७॥
॥ विभावितानया ॥ गतागतद्विर्गतजातिः॥ व्याख्याः- श्रियः लक्ष्म्याः पत्युः विष्णोः इति प्रत्युपदेशनं
'यत्राऽशिवध्वनौ स अपराजयः' इति न २। २. 'आह' इति न ३।
प्रश्रोत्तरैकषष्टिशतकाव्यम्