________________
गिरिर्वक्ति- वृश्चिकानां विषं क्व स्यात्? उत्तरम्- हे अग! पर्वत! अले पुच्छकण्टके।
मत्स्याः कुत्र कासु क्रीडन्ति ? उत्तरम्- अप्सु जलेषु।
मुरजित् विष्णुः प्रवदति-'कापिले साङ्ख्यमते भोगभाक् भोगी कः?' इति प्रश्ने उत्तरम्- हे अ! विष्णो! ना पुरुषः।
___ पक्षे, कीदृशेन प्रियेण पत्या प्रणयभृदपि स्नेहवत्यपि का नाऽऽलिङ्गयते? उत्तरम्- अस्नाता अकृतस्त्राना स्त्री मङ्गलेप्सुना मङ्गलं वाञ्छता प्रियेण ॥ अष्टदलं पद्मम् ॥ १४॥
कीदृश्यो' नाव इष्यन्ते तरीतुं वारि वारिधेः?। अशिवध्वनिराख्याति तिर्यग्भेदं च कीदृशः ?॥१५॥
॥ अपराजयः॥ विषमजातिः॥ व्याख्या:- वारिधेः समुद्रस्य वारि तरीतुं कीदृश्य:' नाव इष्यन्ते वाञ्छ्यन्ते? उत्तरम्- अपगता राजयः-छिद्राणि यासु ता अपराजयः।
च: पक्षान्तरे, कीदृशोऽशिवध्वनिः अशिवशब्दः तिर्यग्भेद
१.
'कीदृशो' इति ।
कल्पलतिकाटीकया विभूषितम्