________________
कः?' इति प्रश्ने इदमेवोत्तरम्-तुरङ्गमश्चाश्वः, उक्षा च बलीवर्दः, अन्तश्चाऽवसानम्, सु च सुष्ठु, खरं चाऽतिकठिनम्, अश्च विष्णुः, ते तथा, तत्सम्बोधनम्- हे तुरङ्गमोक्षान्तसुखरा! जिनः एकः।
क्वचिदवचूरौ तु- 'हे अङ्ग! मोक्षान्तसुखरायाः जनिः, तस्यै मोक्षान्तसुखराजनये मोक्षान्तसुखदानोत्पत्तये को हेतुः? इति वाजिबलीवादिभिः प्रश्ने कृतेऽङ्गमिदमेवोत्तरं प्राह- हे तुरङ्गमोक्षान्तसुखराः! समाहारद्वन्द्वे सम्बोधनम्, जनः एक आत्मा हेतुरित्यर्थः' इत्यपि व्याख्यातमस्ति।
जिनः एकः 'स्वरे यत्वं वा' [सार. सू. ११२] इति सूत्रेण "जिनयेकः' इति सिध्यति ॥ समवर्णप्रश्नोत्तरजातिः ॥ १३॥ क्रव्यादां केन तुष्टिर्जगदनभिमता का ? रिपुः कीदृगुग्रः ?, के नेच्छन्तीह लोकाः? प्रणिगदति गिरिर्वृश्चिकानां विषं व?। कुत्र क्रीडन्ति मत्स्याः? प्रवदति मुरजित्कापिले भोगभाक्कः ?, कीदृक्का कीदृशेन प्रणयभृदपि चाऽऽलियते न प्रियेण?॥१४॥
॥अस्नातास्त्रीमङ्गलेप्सुना ॥ अष्टदलकमलम्॥ व्याख्या:-क्रव्यादा राक्षसानां केन तुष्टिः ? उत्तरम्- अश्रा मांसेन।
जगत:- विश्वस्याऽनभिमता-अनिष्टा' जगदनभिमता का? उत्तरम्- अता अलक्ष्मीः, दरिद्रतेत्यर्थः।
कीदृग् रिपुः उग्रः उत्कटः? उत्तरम्- अस्त्रमस्यास्तीति अस्त्री-शस्त्रवान्।
लोकाः कं नेच्छन्ति ? अमं रोगम्। 'अनिष्टा' इति न ३। 'उग्रः' इति न २।
प्रश्नोत्तरैकषष्टिशतकाव्यम्