________________
धूमध्वजस्य-अग्नेः सचिवभावः साहाय्यं केन व्यरचि? उत्तरम्- वायुना पवनेन।
कीदृशेनाऽऽतुरेण रोगिणां रुक् व्याधिः क्षयम् उपगमिता प्रापिता? उत्तरम्- जायुम्-औषधं पिबतीति जायुपाः, क्विप्प्रत्ययः, तेन जायुपा।
अर्शसानाम् अर्शोरोगयुक्तानां कीदृशी विबाधा इह जगति स्यात्? उत्तरम्- पायौ-अपाने जाता प्रायुजा॥ मन्थानान्तरजातिः ॥ १२ ॥
| ना
यु |
वा
।
वाजिबलीवर्दविना-शसुष्ठनिष्ठरमुरद्विषो यमिह। प्रश्नं विदधुर्वपुष-स्तस्मिन्नेवोत्तरमवापुः॥ १३॥
॥ हेतुरङ्गमोक्षान्तसुखराजिनयेकः॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः- वाजी च बलीवर्दश्च विनाशश्च सुष्ठुनिष्ठुरश्च मुरद्विट् च वाजिबलीवर्दविनाशसुष्ठुनिष्ठुरमुरद्विषः, एते वपुषः देहस्य यं प्रश्रं विदधुः चक्रुः, तस्मिन्नेव प्रश्ने ते वाज्यादय उत्तरं प्रापुः।
तथाहि- 'मोक्षान्तं च तत्सुखं च मोक्षान्तसुखम्, तस्य राजि:श्रेणिः, तस्या नये-प्रापणे मोक्षान्तसुखराजिनये हे अङ्ग! शरीर! हेतुः १. 'वाज्यादयः' इति न १, २ ।
१२
कल्पलतिकाटीकया विभूषितम्