SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य?। उरशब्दः कल्याणद-बलहिमशृङ्गान् वदति कीदृक् ?॥११॥ ॥ आदिश्यन्तरवविशिखानुः ॥ व्यस्तसमस्तजातिः॥ व्याख्याः- 'प्रतिवादिन एव द्विरदाः-गजाः, तेषां भिदेभेदाय प्रतिवादिद्विरदभिदे गुरुणा कस्य के किम् अक्रियन्त चक्रिरे?' इति प्रश्ने उत्तरम्- आदिश्यन्त रवविशिखा नुः। रवा एव विशिखा रवविशिखा:-शब्दबाणा नु:-पुरुषस्य आदिश्यन्त आदिष्टा इत्यर्थः। कीदृग् उरशब्दः कल्याणदबलहिमशृङ्गान् कल्याणदादिवाचिशब्दान् वदति? उत्तरम्- आदौ शिर्यस्य स आदिशिः। अन्तरेमध्ये वश्च विश्च शिश्च खश्च यस्य स अन्तरवविशिखः। न विद्यते उः यत्र स अनुः। तत आदिशिश्चासौ अन्तरवविशिखश्चासौ अनुश्च आदिश्यन्तरवविशिखानुः। कोऽर्थः? उरशब्दस्य उकारे लुप्ते, आदौ शिकारे दत्ते, मध्ये वविशिखेषु दत्तेषु क्रमेण 'शिवं रातीति शिवरःकल्याणदायी, शिविरं-कटकम्, शिशिरः-हिमम्, शिखरं-शृङ्गम्' इति शब्दा भवन्ति ॥ व्यस्तसमस्तजातिः ॥ ११॥ । हरति क इह कीदृक् कामिनीनां मनांसि ?, व्यरचि सचिवभावः केन धूमध्वजस्य ?। क्षयमुपगमिता रुक् कीदृशेनाऽऽतुरेण?, प्रसरति च विबाधा कीदृशीहाऽर्शसानाम् ?॥ १२॥ ॥ना युवा, वायुना, जायुपा, पायुजा ॥ मन्थानान्तरजाति: ॥ व्याख्याः- इह जगति कः कीदृशः कामिनीनां मनांसि हरति? उत्तरम्- ना पुमान् युवा तरुणः। १. 'व्यस्तसमस्तजातिः' इति न १, २। २. 'मन्थानजातिः' इति २, ३।। प्रश्नोत्तरैकषष्टिशतकाव्यम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy