________________
हरिरतिरमा यूयं कान् किं कुरुध्वमदोऽक्षरं ?, किमपि वदति भेजे गीतश्रियाऽपि च कीदृशा?। जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?, गतशुभधियां का स्यात् कुत्राभियोगविधायिनाम् ?॥१०॥ ॥ यानताम स!, समतानया, विभुता सदा, दासता भुवि॥ मन्थानजातिः॥
व्याख्याः - अदसः अक्षरम् अदोक्षरम्, अद एतद्वां अक्षरं 'सः' इत्यक्षरं वदति- 'हे हरिरतिरमा! यूयं कान् प्रति किं कुरुध्वम्?' इति प्रश्ने उत्तरम्- हे स! अदोक्षर! वयं यान् अताम गच्छाम। कोऽर्थः? ई च इश्च अश्च याः, तान् यान् । हरिः ई-लक्ष्मीम्, रतिः ई-कामम्, रमा अं-हरिं यातीति भावः। 'अताम' इति 'अत सातत्यगमने' [पाणि. धातु. ३८] आशी:प्रेरणयोरामपि रूपम्।
कीदृश्या गीतश्रिया भेजे शुशुभे? समतानया। समः तान:गीतविशेषो यस्यां सा समताना, तया।
जिनमतजुषां जिनमतसेविनाम् अङ्गिनां कियच्चिरं कियत्कालम् अस्मिन् लोके का स्यात् ? उत्तरम्- विभुता नायकत्वं सदा सर्वकालं स्यात्।
गतशुभधियां गतपुण्यबुद्धीनाम् अभियोगविधायिनाम् उद्यमकारिणां कुत्र का स्यात्? उत्तरम्– दासता कर्मकरत्वं भुवि पृथिव्यां भवतीति ॥ मन्थानजातिः ॥ १० ॥
या न
ता | म स
स
१.
'यान्' इति न ३।
कल्पलतिकाटीकया विभूषितम्