________________
व्याख्या:- लक्ष्मीः कम् अभिसरति अभिरमति गच्छति ? उत्तरम् — अं विष्णुम् ।
सरागैः किम् अजय्यं जेतुमशक्यम् ? उत्तरम् — अक्षम्
इन्द्रियम् ।
सकलमलविमुक्तं ज्ञानमर्थात् केवलज्ञानं कीदृशमुक्तम् ? अत्रोतरम् - अक्षरम् । न क्षरति चलतीति अक्षरम्, अविनश्वरमित्यर्थः ।
सततरतविमर्दे निर्दये बद्धबुद्धिः अविच्छिन्नसुरतबद्धधीः कान्ता किमभिलषति ? उत्तरम् - अक्षरणं वीर्यस्यापातमिति । चः पक्षान्तरे, हनूमान् किं चक्रे ? उत्तरम् - अक्षेण-रावणसुतेन सह रणं सङ्ग्रामम्, अक्षैः- पाशकैर्वा रणं देवनलक्षणम् अक्षरणम् ॥ चलद्विन्दुजातिः ॥ ८ ॥
-
भूरापृच्छति' किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । पीतांशुकं किमकरोत् ? कुत्र ? क्व नु मादृशां वासः ? ॥ ९ ॥
॥ कोकनदे ॥ द्विर्गतः ॥
व्याख्या:- अत्राद्यतृतीययोः द्वितीयतुर्ययोश्च पादयोः परस्परं सम्बन्धो योज्यः । तथाहि
भूः पृथिवी चक्रवाकमापृच्छति 'पीतांशुकं पीतवस्त्रं कुत्र किमकरोत् ?' चक्रवाक उत्तरयति - हे को! पृथिवि ! अकनत् शुशुभे ए विष्णौ, विष्णौ पीतांशुकमशोभत इत्यर्थः, 'कन (कनी ) दीप्तिकान्तिगतिषु ' [ पाणि. धातु. ४९३ ] इति वचनात्।
-
एषोऽपि चक्रवाको भूमिमप्राक्षीत् पप्रच्छ- मादृशां पक्षिणां वासः क्व सम्भवति ? भूः प्राह हे कोक! चक्रवाक ! नदे हदे भवादृशां वासो भवतीति ॥ द्विर्गतजातिः ॥ ९॥
'भूरापृच्छत्' इति २ ।
-
प्रश्नोत्तरैकषष्टिशतकाव्यम्