________________
'वष्टिभागुरि०' [सार अव्य०] [पाणि. अव्य.प्र.] इत्यादिना ‘अतीतादेः' [ ] इति वचनात्, पृषोदरादित्वाद् वाऽकारलोपे 'पापम्' इति रूपसिद्धिः।
पक्षे, नतिरस्यास्तीति नतिमान्, तस्मिन् नतिमति प्रणामकर्तरि जने का किमुत्कटं किं करोति? अत्रोत्तरम्- वीराज्ञा विनुदति पापम्। श्रीमहावीरस्याज्ञा पापं विनुदति-प्रेरयति, निर्दलयतीत्यर्थः ।। शृङ्खलाजातिः ॥ ६॥
वी रा
ज्ञा वि न द तिं पापं
दृष्ट्वा राहुमुखग्रस्य-मानमिन्दुं किमाह तद्दयिता ?। असुमेति पदं कीदृक् कामं लक्ष्मी च बोधयति?॥७॥
॥ अवतमसम्॥ विषमजातिः॥ व्याख्याः- 'राहुमुखेन ग्रस्यमानं राहुमुखग्रस्यमानम् इन्दुं चन्द्रं दृष्ट्वा तद्दयिता तत्प्रिया रोहिणी किम् आह किं वक्ति?' इति प्रश्ने उत्तरम्- अवत रक्षत मसं चन्द्रं भो जनाः!
पक्षे, असुमेति चतुरक्षरं पदं कीदृक् सन् कामं लक्ष्मी च सम्बोधयति? अत्रोत्तरम्- उश्च अश्च तश्च मश्च सश्च वतमसाः, न विद्यन्ते वतमसा यत्र तद् अवतमसम्। ततो हे ए!-काम! हे इ!लक्ष्मि! भवति ॥ विषमजातिः ॥ ७॥
कमभिसरति लक्ष्मी:? किं सरागैरजय्यं ?, सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम् ?। सततरतविमर्दै निर्दये बद्धबुद्धिः, किमभिलषति कान्ता? किं च चक्रे हनूमान् ?॥८॥
॥ अक्षरणम्॥ चलद्विन्दुजाति:२॥ 'प्रचक्रे' इति । 'चलद्विन्दुजातिः' इति न ३।
कल्पलतिकाटीकया विभूषितम्