________________
ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः? केन जेत्राऽऽह विद्वानुद्यानं स्यान्न कीदृग् ? जलधिजलमहो! कीदृशं स्यान गम्यम् ?। को मां वक्त्याह कृष्णः ? क्व सति पटु वचः? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं? नतिमति लघु का किं करोत्युत्कटं किम्?॥६॥
॥वीराज्ञाविनुदतिपापम्॥ शृङ्खलाजातिः॥ व्याख्याः- ब्रह्मस्मरौ ब्रूतः - 'केन जेत्रा रणशिरसि के जिता: जिज्ञिरे?' इति प्रश्ने उत्तरम्- उ:-ब्रह्मा, इ:-कामः, उश्च इश्च वी, तत्सम्बोधनं हे वी! वीराः सुभटाः राज्ञा भूपेन जिताः। एवमन्यत्राऽपि ब्रूतेपृच्छत्यप्राक्षीत्प्राहेत्यादिषु पृच्छाकर्तृसम्बोधनपूर्वमेवोत्तरं देयमिति।
विद्वान् आह ब्रवीति- 'वनं कीदृग् न स्यात् ?' उत्तरम्हे ज्ञ! विद्वन् ! न विद्यन्ते वयः-पक्षिणो यत्र तद् अवि, पक्षिरहितमुद्यानं न स्यादित्यर्थः।
अहो! इति प्रश्ने, कीदृशंजलधिजलंगम्यं न भवति ? उत्तरम्विनु विगता नौ:-बेडा यत्र तद्, बेडारहितमब्धिजलं दुर्लयं भवतीति।
कृष्णः हरिः आह- को मां वक्ति? उत्तरम्- नौतीति नुत् स्तुतिकृद् हे अ! विष्णो!, यस्त्वां नौति स वक्ति।
क्व सति विद्यमाने पटु स्पष्टोच्चारं वचः वचनं भवेत्? उत्तरम्दति। दशने सति पटुवचनं भवतीत्यर्थः। 'दन्तस्य दति'[ ] इति दत्।
उतः उकारस्य केन वृद्धिः? उत्तरम्- तिपा तिप्प्रत्ययेन, 'उतो वृद्धिः.' [का.सू. आख्यात ३४८]; [पाणि. ७/३/८९] इत्यादिना नौतीत्यादौ यथा वृद्धिर्भवति।
'कीदृक् तडागं सरः त्याज्यं परिहार्यम्?' इति प्रश्ने उत्तरम्पापम्। अप-गता आपः-जलानि यत्र तत् पापम्, निर्जलमित्यर्थः।
१.
'भवति' इति ३।
प्रश्नोत्तरैकषष्टिशतकाव्यम्