________________
कीदृशीमकरोत् ? उत्तरम्- अनसां नासारहिताम्। न विद्यते नासिका यस्याः सा अनसा, नासिकाया नस् बहुव्रीहौ, आप् च।
वा पक्षान्तरे, 'शृङ्गारलीलास्पृशः शृङ्गारलीलायुक्ता मृगदृशः रामाः केषां मनोमुदे चित्तहर्षाय न भवन्ति?' इति प्रश्ने उत्तरम्अपरागमनसाम्। अपगतो रागो मनसि-चित्ते येषाम्, अपरागं–गतरागं मनो येषामिति वा ते अपरागमनसः, तेषां नीरागचित्तानामित्यर्थः। द्विळस्तसमस्तजाति: ॥ ४॥
प्रभविष्णुविष्णुजिष्णुनि युद्धे कर्णस्य कीदृगभिसन्धिः?। नकुलकुलसङ्कलभुवि प्रायः स्यात्कीदृगहिनिवहः?॥ ५॥
॥वि(बि)लसदनरतः॥ द्विःसमस्तजातिः॥ व्याख्या:- प्रभविष्णू समर्थौ विष्णुश्च हरिः जिष्णुश्चार्जुनः विष्णुजिष्णू यत्र तत्, तत्र ईदृशे युद्धे कर्णस्य राज्ञः अभिसन्धिः प्रतिज्ञा कीदृक् ? अ:-कृष्णः, नरः-अर्जुनः, अश्च नरश्च अनरौ, विलसन्तौ च यौ अनरौ च विलसदनरौ, तौ तस्यति-क्षयं नयतीति विलसदनरतः। अत्र धातुत्वान्न दीर्घः। यदि वा विलसन्तौ यौ अनरौ, तौ तस्यामि-क्षयं नयामीति क्विपि तथैव, ‘तसु उपक्षये' [पाणि. धा. १२८९] इति धातुपाठवचनात् ।
पक्षे, नकुलकुलसङ्कलभुवि नकुलगणाकीर्णभूमौ अहिनिवहः सर्पसमूहः कीदृग् भवति? उत्तरम्- बिलमेव सदनम्-आश्रयः, तत्र रतः-लीनः बिलसदनरतः॥ द्विःसमस्तजातिः ॥ ५॥
I
१.
is
'शृङ्गारलीलां स्पृशन्तीति शृङ्गारलीलास्पृशः' इति ३। 'द्विळस्तसमस्तजातिः' इति न ३। 'हर्यर्जुनौ' इत्यधिकः पाठः ३। 'धातुपाठात्' इति ३।
in
४.
w
कल्पलतिकाटीकया विभूषितम्