________________
योऽन्यं सश्रीकं कुरुते स कीदृग् उच्यते? उत्तरम्- हे उद्र! जलचरविशेष! 'उद्रस्तु जलमार्जार.' [अभि. चिन्ता.-१३५०] इति वचनात्, स सम् उच्यते । सह मया-लक्ष्म्या वर्तत इति समः, तं करोतिसमयतीति णिज्प्रत्यये ततः क्विप् ‘सम्' इति सिद्धम्, श्रीकरः स कथ्यते।
अप्सु जले बुडन् निमज्जन् जनः किमिच्छति वाञ्छति? उत्तरम्- तरणं प्लवनम्।
चः पक्षे, कीदृक् कामी ? किं वाञ्छेत् ? उत्तरम्- सह मुदा-हर्षेण वर्तते यः स समुत् कामी रते-सम्भोगे रणं-शब्दविशेषं रतरणम्, रतरणं वा सम्भोगयुद्धं वाञ्छतीत्यर्थः॥ द्विळस्तः ॥ ३॥
कीदृक् पुष्पमलिव्रजो न भजते ? वर्षासु केषां गतिर्न स्यादध्वनि? कं श्रितश्च कुरुते कोकं सशोकं रविः?। लङ्केशस्य किल स्वसारमकरोद्रामानुजः कीदृशीं ?, केषां वा न मनो मुदे मृगदृशः शृङ्गारलीलास्पृशः?॥ ४॥
॥अपरागमनसाम्॥ द्विळस्तसमस्तजातिः॥ व्याख्याः- अलिव्रजः भृङ्गसमूहः कीदृक् पुष्पं न भजते सेवते? उत्तरम्- न विद्यते पराग:-किञ्जल्को यत्र तद् अपरागम्।
वर्षासु वर्षाकाले अध्वनि मार्गे केषां गतिर्न स्यात् ? अनसां शकटानाम्।
चः पक्षान्तरे, रविः सूर्यः कं श्रितः सन् कोकं चक्रवाकं सशोकं कुरुते ? उत्तरम्- अपरस्यां-पश्चिमायां दिशि योऽगः-पर्वतः सोऽपरागः, तम् अपरागम् अस्ताचलमित्यर्थः।
रामानुजः लक्ष्मणो लङ्केशस्य रावणस्य स्वसारं भगिनीं
'पक्षान्तरे' इति ३। २. 'सूर्यः' इति न १, ३।
प्रश्रोत्तरैकषष्टिशतकाव्यम्