________________
सम्प्रसारणम्, 'तद्दीर्घ.' [का.सू. कृदन्त. ५२] इत्यादिना दीर्घत्वम्, 'प्वादी.' [का.सू. आख्यात. ३४७] इत्यादिना ह्रस्वत्वम्, 'त्र्यादि.' [का.सू. आख्यात. १६५६] इत्यादिना आकारलोपः, 'जिनत्' इति सिद्धम्।
अथ इति प्रश्नान्तरे, 'काध्वनिः का इति शब्दः कीदृक् सन् शिल्पिशिक्यदेहान् उदाहरति ? शिल्पी प्रसिद्धः, शिक्यं - भारोद्वहनयन्त्रम्, देहः-शरीरम्, शिल्पी च शिक्यं च देहश्च ते तथा', तान् ब्रूते' इति प्रश्ने उत्तरम्-अन्तरुचयः। रुश्च चश्च यश्च रुचया इत्यक्षराणि अन्ते यस्य काध्वनेरिति सः अन्तरुचयः। काशब्दस्यान्ते रुचयेषु वर्णेषु दत्तेषु यथाक्रम-'कारु-काच-काय' इति भवति। कारु:-शिल्पी, काचः-शिक्यम्, कायः-देह इति।
चः२ पक्षान्तरे, 'समवसृत्यवनौ समवसरणभूमौ भवाम्बुमध्ये प्रपातिनी-प्रपतनशीला या जनता-जनसमूहः, तस्या उद्धृतौ-उद्धरणे रज्जुरूपा:-रज्जुकल्पा भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपा:' का अरुचन् रेजुः?' इति प्रश्ने उत्तरम्- जिनस्य दन्तरुचयो जिनदन्तरुचयः अर्हद्दशनदीप्तय इत्यर्थः॥ शब्दार्थलिङ्गवचनभिन्नव्यस्तसमस्तजातिः ॥ २ ॥ सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः?। अप्सु बुडन् किमिच्छति? कीदृक्कामी? च किं वाञ्छेत् ?॥३॥
॥समुद्रतरणम्॥ द्वि-स्तसमस्तजातिः॥ व्याख्याः- जलचरविशेष इत्याह इति वक्ति। इति किं?
"शिल्पी च शिक्यं च देहश्च ते तथा' इति पाठः ३ प्रतौ नास्ति, तत्स्थाने 'ततो द्वन्द्वे' इति पाठो दृश्यते। 'च' इति २। 'भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपाः' इति न ३ । 'जिनदन्तरुचयः' इति न ३।
कल्पलतिकाटीकया विभूषितम्