________________
कै? क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानैः। क्रमयोः-चरणयोर्नखाः क्रमनखाः, तेषां दशकं क्रमनखदशकम्, तस्माद् उद्यन्त:-ऊर्ध्वं प्रसरन्तो दीप्रा:-भासुरा ये दीप्तिप्रताना:-कान्तिसमूहाः, ततः कर्मधारये क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानाः, तैः। क्रमनखदशकोट्युद्दीप्रदीप्तिप्रतानैः इति पाठे तु क्रमनखानां या दश कोटयः-अग्रभागाः, ताभ्य उत्-ऊर्ध्वं प्रसरन्तो दीप्रा इत्यादि, शेषं प्राग्वत्। यद्यपि सिद्धान्ते जीवानामैकविध्यद्वैविध्यादिप्रकारेण बाहुविध्यमभिहितमस्ति, तथापीह क्रमनखदशकानुरोधेन देशनायोग्यानां दशविधत्वमुपनीयत एवेति ॥ १॥
__ अत्र प्रथमपादत्रयेण मङ्गलमाविष्कृतम्। तुर्यपादेन त्वभिधेयप्रयोजनेऽभिहिते। सम्बन्धस्तु सामर्थ्यगम्यः। स चोपायोपेयलक्षणः, तत्रोपेयं शास्त्रार्थपरिज्ञानमुपायस्त्वयमेव ग्रन्थ इति। - इत्थमाद्यपद्येन मङ्गलादिचतुष्टयं प्रतिपाद्य यथाभिहितमेव निर्वाहयति।
कीदृग्वपुस्तनुभृतामथ शिल्पिशिक्यदेहानुदाहरति काध्वनिरत्र कीदृग् ?। काश्चारुचन् समवसृत्यवनौ भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपा:?॥ २॥
___॥ जिनदन्तरुचयः॥ [शब्दा० व्यस्तसमस्तजातिः ]॥ व्याख्याः- 'तनुभृताम् अङ्गिनां वपुः कीदृग्?' इति प्रश्ने उत्तरम्- जिनत् हानिं गच्छद्, वयोबलादिभिः। 'ज्या वयोहानौ' [सार. क्रयादि पर. पृ. ३८०]; [पाणि. धा. १५९८] धातुः, शतृप्रत्ययः, नाविकरणे 'ग्रहिज्यावयि. [का.सू. आख्यात. १२५] इत्यादिना
१. २.
'उत्' इति न ३। 'अङ्गिनाम्' इति न ३।
प्रश्नोत्तरैकषष्टिशतकाव्यम्