SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ वितनोमि विवरणमहं, सुगमं स्वपरोपकारकृते॥ ३॥ इह हि ग्रन्थकारः शिष्टसमयपरिपालनार्थं निःशेषविघ्नसङ्घातविघातेन विधित्सितशास्त्रपरिसमाप्त्यर्थं च विशिष्टाभीष्टदेवतानमस्काररूपमङ्गलगर्भं प्रेक्षावत्प्रवृत्तिनिमित्ताभिधेयादिप्रतिपादकं च प्रथम वृत्तमाह क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानैदशविधतनुभाजामुज्ज्वलं मोक्षमार्गम्। पृथकदिव दिशन्तं पार्श्वमानम्य सम्यक्, कतिचिदबुधबुद्ध्यै वच्म्यहं प्रश्रभेदान्॥१॥ व्याख्याः- श्रीजिनवल्लभसूरिर्वक्ति- अहं कतिचित् कतिपयान् प्रश्रभेदान् वच्मि कथयामि। कस्यै? अबुधबुद्धयै, अबुधानां तादृक् प्रश्नविशेषानभिज्ञानां बुद्ध्यै-प्रबोधाय अबुधबुद्ध्यै। किं कृत्वा? पार्श्व' श्रीपार्श्वनाथं सम्यक् त्रिकरणशुद्ध्यारे आनम्य नमस्कृत्य। किं कुर्वन्तं पार्श्वम्? दशविधतनुभाजां भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपचतुविधसुरस्त्रीपुनपुंसकरूपषड्विधतिर्यग्मनुष्यलक्षणदशप्रकारप्राणिनां पृथकत् पृथक् पृथग् उज्ज्वलं प्रकटं मोक्षमार्ग दिशन्तमिव दर्शयन्तमिव। 'इव' शब्द उत्प्रेक्षायाम्। पृथगेव पृथकत्। 'अव्यय-सर्वनाम्नामकच् प्राक् टेः' [पाणि. ५/३/७१], 'कस्य च दः' [पाणि. ५/३/७२] इति सूत्रद्वयेन 'पृथकत्' इति सिद्ध्यति। 'पृथगिव विदिशन्तम्' इति पाठे तु स्पष्टमेव। १. 'पृथगिव विदिशन्तम्' इति २, मु० प्रतौ च। 'पार्श्वम्' इति न ३। 'मनोवाक्कायशुद्ध्या' इत्यधिकः पाठः ३ । कल्पलतिकाटीकया विभूषितम्
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy