________________
॥ ऊँ हाँ अहँ नमः॥ ॥ श्री नेमि-विज्ञान-कस्तूर-चन्द्रोदय-अशोकचन्द्रसूरिभ्यो नमः॥
पूज्याचार्यश्रीजिनवल्लभसूरिपादैर्विरचितं
प्रश्नोत्तरैकषष्टिशतककाव्यम् महोपाध्यायश्रीपुण्यसागरगणिविरचितकल्पलतिकाटीकया विभूषितम्
॥०॥ श्रीपार्श्वनाथाय नमः॥ शिरसि यस्य चकासति दीपिका, इव फणा मणिसप्तकदीप्तयः। निखिलभीतितमःशमनाय किं, सपदि पार्श्वजिनं विनवीमि तम्॥ १॥ स जयताज्जगतीजनवल्लभः, परहितैकपरो जिनवल्लभः। चतुरचेतसि यस्य चमत्कृति, रचयतीह चिरं रुचिरं वचः॥ २॥ तद्विरचितविषमार्थ
प्रश्नोत्तरषष्टिशतकशास्त्रस्य। 'श्रीगुरुभ्यो नमः' इति १ । ३ प्रतौ नमस्कारात्मकं मङ्गलं नास्ति। 'विनमामि' इति ३।
२.
प्रश्रोत्तरैकषष्टिशतकाव्यम्