SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे ?, प्रेम्णा किं करवाण्यहं हरिपदोः ? पप्रच्छ लक्ष्मीरिति। कस्मै चिक्लिशुरङ्गदादिकपयः ? क्वाऽनोकहे नम्रता ?, कस्मै किं विदधीत भक्तविषयत्यागादिकर्हितः?॥१५४॥ ॥ से तप, पत से!, सेतवे, वेतसे, तपसे, सेवेत॥ मन्थानान्तरजातिः॥ व्याख्या:- अहं प्रियविप्रयोगदहनः प्रियविरहानिः कीदृशे श्रीचित्ते किं दधे धारयामि? उत्तरम्- सह एन-विष्णुना वर्तते सम्, तस्मिन् से, सहशब्दस्य सभावे नपुंसके सप्तम्येकवचने 'से' इति रूपम्, तप सन्तापं कुरु। लक्ष्मीरिति पप्रच्छ- अहं प्रेम्णा हरिपदोः विष्णुचरणयोः किं करवाणि?- पत प्रणामं कुरु हे से! लक्ष्मि! अङ्गदादिकपयः कस्मै चिक्लिशुः क्लेशं चक्रुः? उत्तरम्सेतवे सेतुबन्धाय। क्वाऽनोकहे कस्मिन् वृक्षे नम्रता? वेतसे जलवंसे। आर्हतः भक्तविषयत्यागादिकर्म कस्मै किं विदधीत? उत्तरम्- तपसे तपोनिमित्तं सेवेत कुर्वीत ॥ मन्थानान्तरजाति: ॥ १५४॥ से त प| हिमवत्पत्नी परिपृच्छति कः कीदृक् कीदृशि कस्याः कस्मिन् ?। केन न लभ्या नृसुरशिवश्री-रित्याख्यकिल कोऽपि जिनेन्द्रः॥१५५॥ मेनेपिनाकीवक्तावाननेतेविनये॥गतागतः॥ १. 'मन्थानान्तरजातिः' इति २। २. 'न' इति न २। प्रश्नोत्तरैकषष्टिशतकाव्यम् ११३
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy