________________
व्याख्याः- हिमवत्पत्नी मेना परिपृच्छति - कस्याः कस्मिन् कीदृशि कः कीदृक् ? उत्तरम् - हे मेने ! हिमाचलभार्ये! पिनाकीहर: वक्ता वचनशील:, 'वन - षण सम्भक्तौ ' [ पाणि. धातु. ४९५४९६], इनन्त:(?) ततो वानयतीति वाननः, अनट्प्रत्ययः, तस्मिन् वानने सम्भक्तिकारके - विभागवति ते तव सम्बन्धिनि विनये ।
'नृसुरशिवश्रीः केन न लभ्या?' कोऽपि जिनेन्द्र इत्याख्यत् आह स्म । अत्रोत्तरं प्रत्यागतेन - येन पुंसा वितेने विस्तारिता न नैव वाक् वाणी तावकीनापि तव सम्बन्धिन्यपि हे नेमे ! नेमिजिनेश्वर ! अयमर्थ :- हे नेमे ! येन तव वाणी न प्रमाणीकृता तेन नरसुरमुक्तिश्रीर्न लभ्येति ॥ गतप्रत्यागतंजातिः ॥ १५५ ॥
। बहुलहरितरच्छकुलचलच्छंखेमकरं ॥ [ भाषाचित्रजाति: ] ॥ व्याख्याः— ‘तृणजलतरुपूर्णं तथा व्याधशून्यमपि लुब्धकरहितमपि 'रन्नं' ति अरण्यं हरिणकुलानां कीदृशं सत् कीदृशं न भवति ?' इति त्वं भण। उत्तरम् - बहुलाः- प्रभूता हरयः - सिंहाः, ते च तरच्छाः च रिञ्छाः ते तथा, तेषां कुलानि तेषां चलानि अक्षीणि यत्राऽरण्ये तत्तथा बहुलहरितरच्छकुलचलाक्षं सत् 'खेमंकरं 'त्ति क्षेमकरं शुभकरं न स्यादित्यर्थः ।
पक्षे, प्रलयस्य यः पवनवेगः प्रलयपवनवेगः, तेन यत्प्रेरणम्,
१.
२.
३.
तणजलतरुपुन्नं वाहनं पिरन्नं, ?
भण हरिणकुलाणं केरिसं केरिसं नो ? प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ, सतततदधिवासं व्यूढमैक्षन्त' कं वा ? ॥ १५६ ॥
११४
'गतप्रत्यागतजातिः' इति न ३ । 'मेक्षं.' इति २ । '० मैक्ष्यन्त' इति ३ ।
'खेमंकरोति' इति १ ।
कल्पलतिकाटीकया विभूषितम्