________________
भो ऋषयः! यूयं सन्तोषानिना काः कीदृशीः किं कुरुध्वे? ऋषय उत्तरमाहुः- वयं याः लक्ष्मी: अमानसारा: अपूजाप्रधाना दहेम भस्मीकुर्याम। 'दह भस्मीकरणे' [सार.भ्वा.पर.पृ.२४२]; [पाणि. धातु. १०६०] इत्यस्य विधिसम्भावनयोः यामपरे 'दहेम' इति रूपम्।
___ अहं मदनभयविधुरितः सन् कया कान् किं करवै? उत्तरं प्रत्यागतेन- महेदरासानमायया। कोऽर्थः? त्वं मह-पूजय, ए:- कामात् दर:- भयम्, तं अस्यन्ति- क्षिपन्ति ये ते इदरासा:- कामभयभेदका अर्थात्साधवः, तान् इदरासान् अमायया-छद्माभावेन पूजयेत्यर्थः॥ गतागतः ॥ अत्रैकस्मिन्नुत्तरे वृत्तत्रयेण जातित्रयं दर्शितम्॥ १५१॥
कृषीबलः पृच्छति कीदृगार्हतः ?, क्व केन विद्वानुपयाति हास्यताम् ?। सुरालयक्रीडनचञ्चुरुच्चकैश्च्युतिक्षणे शोचति निर्जरः कथम् ?॥ १५२॥ ॥ हालिक!, कलिहा, नालिके, केलिना, नाककेलि! हा!॥
मन्थानान्तरजातिविशेषः॥ व्याख्याः- कृषीबलः पृच्छति - आर्हतः जैनः कीदृक्? हे हालिक! कृषिक! कलिं-कलहं हन्तीति कलिहा।
विद्वान् क केनोपहास्यतां याति? नालिके मूर्खे केलिना हास्येन।
तथा सुरालये-स्वर्गे क्रीडनम्, तेन चञ्चुः-प्रसिद्धः सुरालयक्रीडनचञ्चः, एवंविधो निर्जरः देवः च्युतिक्षणे च्यवनसमये कथं शोचति? उत्तरम्-नाककेलि! हा! नाकस्य-देवलोकस्य केली- क्रीडा नाककेली, तस्या आमन्त्रणम्- नाककेलि!, 'हा' इति खेदे। तां स्मृत्वेत्यमुना प्रकारेण शोचतीत्यर्थः॥ मन्थानान्तरजातिविशेषः ॥ १५२॥
प्रश्रोत्तरैकषष्टिशतकाव्यम्